पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख २२, सू १० ] आपस्तम्ब श्रौतसूत्रे पञ्चमप्रश्ने सप्तमः पटल 573 (भा) १५ - १६) अबन्धनात्कामस्य न काम इत्युपदेशः । यत्रापि बन्धः तत्राप्यका महतश्रुतस्य प्रतिषिध्यते फलम् || L [कामनायां उपदेशपक्षाशयविवरणम् ] (वृ) अबन्धना-पदेशः - सूत्रकारेणाबन्धनात् न फलकल्पना । [फलश्रुतिसत्वेऽप्यधिकारिभेदेन तदविवक्षापि] यत्रापि - बन्धः – सूत्रकारेण दर्शपूर्णमासादिषु । तत्राप्यकाम-ध्यते फलमिति - अस्यार्थ - ज्ञानकर्मसमुष्य- यान्मोक्षसिद्धेः कर्मसु फलेच्छा न कर्तव्या | श्रोत्रियस्य चाकामहतस्येति कामिनो मोक्षाभावात् । स्वर्गादिश्रवणेऽपि मुमुक्षोस्तादच्छयाउनुष्ठान- मयुक्तम् । आकामहतश्रुतस्य – आकामहत इति श्रुतस्येत्यर्थः । व्यासमताच्च ' कामात्मता खल्वपि न प्रशस्ता इति । भगवद्गीतासु च ‘सन त्यक्त्वा फल च ' इति बहुशो दर्शनात् || [कर्मणां मोक्षविरोधित्ववादनिरासः] ननु न कर्मणान प्रजया धनेन त्यागेनैके अमृतत्वमानशुः नाम्त्यकृत कृतेन इत्यादिभि बहुश्रुतिस्मृतिमि कर्मणां मोक्षसाघनत्व प्रतिषिध्यते । तथा तमेव विदित्वाऽतिमृत्युमेति ब्रह्म वेद ब्रह्मैव भवति तमेवं विद्वानमृत इह भवति इत्यादिभिः ज्ञान साघनत्वा- वगमात् । तथा च 'तमेवं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन ' तपसानाशकेन ' ' अविद्यया मृत्यु विद्ययाऽमृतमश्वते इत्यादिभिः कर्मणो विद्यायाश्च फलभेदोऽवगम्यते । अतो न समुचिते ज्ञानकर्मणी मोक्षस्य साघनमिति, नैतत्सारम्; श्रुतिस्मृतिनियन्त्राणां महतीमसहमानानां स्वैराचारसमुत्सुकाना वैदिक- गर्हाभयात् वेदवाक्यान्ययथातथमुदाहरतां परलोकभयरहितानामिदं 2 तीर्त्वा 2 नीत्वा - ख. ग. 1 • नस्य साधनत्वमवगम्यते-ख ग