पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं २२, सू ४.] आपस्तम्ब श्रौतसूत्रे पञ्चमप्रश्ने सप्तमः पटल. 569 (मा) केचित्पवमानहविषामुत्कर्षे ऐन्द्रामादीनि तदहरेव कुर्वन्ति । यजुरुस्पतेन घृतेन श्रपण चरो | पवित्रवत्याज्य कर्णानावपतीत्यस्य चरुषु दर्शनात् ॥ 1 सप्तदश सामिधेन्यः ॥ २ ॥ २ ॥ १०९० ॥ चतुर्धाकरणकाले आदित्यं ब्रह्मणे परिहरति ॥ ॥ ३ ॥ ३ ॥ १०९१ ।। 2 [विनैव चतुर्धाकरणं प्रधानम्] (भा) अचतुर्धाकृतो ब्रह्मणे दीयत आदित्यः || 3 तं चत्वार ' आर्षेयाः प्राश्नन्ति ॥ ४ ॥ ४ ॥ ।। १०९२ ॥ (वृ) त्वावगते । अत एव सोमाधाने दैवात् सोमारम्भोत्कर्षेऽपि अमिहोत्रायनुष्ठानम् || - [पावमानोत्कर्षेऽपि सद्य एवैन्द्राग्न इति पक्षोपपत्तिः] केचित् कुर्वन्ति – योऽग्निमाधत्ते ऐन्द्राममेकादशकपालमनु- निर्वपेदिति आधानानन्तर निर्वाप्यत्वात् । द्वादशसु रात्रीष्वनुनिर्वपे- दित्युत्कर्षस्य पवमानहविस्सन्निधौ विधानात् ऐन्द्रामादीनि तदहरेव 4 कर्तव्यानि ॥ [चतुर्धाकरणपरिहारप्रकारद्वयम् ] अचतुर्धाकृतो ब्रह्मणे दीयत आदित्यः- चतुर्धाकरणकाले आदित्य ब्रह्मणे परिहरतीति चतुर्षाकरणप्रत्याम्नायतया परिहरणावधा- नात् । अथवा परिहृत्य चतुर्षाकरण चतुर्णा प्राशने चतुर्धाकरणस्या- वश्यकत्वात् परिहरण न चतुर्षाकरणप्रत्याभायः क्रियारूपत्वाच्च 5 ॥ - 1 आमावास्य तन्त्रम् । अस्या ऐन्द्रामस्य मुख्यत्वात् चरुषु विशेषाश्च दर्शपूर्णमासयोरेव दर्शिता (रु) 2 चतुर्धाकरणकाले प्राप्ते आदित्यमविभक्तं ब्रह्मणे प्रयच्छति (रु). 3 त ततो विभज्य भक्षयन्ति चत्वार इति वचनात् ब्रह्माप्यत्रैव भक्षयति न तु स स्थिते (रु). 4 कुर्वन्ति-घ. ‘6 ञ्च मन्त्रस्य' इत्यधिकम् - घ