पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

562 श्रीराममिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ सं २०, सू १९. 1 (सू) त्सा गवां प्रत्याम्नायो भवतीति विज्ञायते ॥ ।। १८ ।। २३ ।। १०७६ ॥ बहुगोदानाशक्तस्य प्रत्यम्नायः गोव्यतिरिक्तं न निवर्तते] अनाढ्यः— यस्य नास्ति दक्षिणासंपत् । काममेवेति वचनात् प्रकृतास्वनडुद्धेन्वादिष्वेका दीयतेऽन्या वा । सा च गवामेव स्थाने भवति, न रथादीनन्यजातीयान्निवर्तयति, नाप्यङ्गदक्षिणाः, अतुल्य- (भा) [ कालत्वात् || 2 - सिद्धमिष्टिस्संतिष्ठते ।। १९ ॥ २४ ॥ १०७७ ।। विशी खण्डिका. [ सिद्धमिष्टिरित निर्देशस्थले शेयांशः] (भा) सिद्धमिष्टिरिति यत्र वचन तत्र कपालविमोचनान्ता सस्था ; न शय्वन्ताद्याः खण्डसस्थाः ॥ [काममेवेत्यतदाशयः] (वृ) अनाढ्य: - ऽन्यावा – काममेवेतीच्छाया प्रकृता वा अप्रकृता वेत्यनियमः ॥ [गोः दक्षिणान्तरानिवर्तकत्वहेतुविवरणम्] सा च गवामेव कालत्वात् - कार्य मेदात् ॥ [भाष्यदर्शितज्ञेयांशे हेतुः] सिद्धमिष्टिरिति — संस्था — 'यथासिद्धाया इष्टे: संस्था- वचनात् || 1 गवा प्रत्याम्नाय इति वचनात् गोरन्यत्सर्वं दातव्यम् । अङ्गदक्षिणाय न निवर्तन्ते । असमानकालत्वादसमानार्थत्वाच्च । बोधायनेन तत्रानुग्रह उक्त प्रसिद्धा अभ्याषेयदक्षिणाददाति तान्नाधिगच्छेत् वासास्येतावन्ति मन्थान्वौदनान्वैतावतो दयादिति (रु) 2 यथा प्रकृतौ सिद्ध तथा समाप्यत इत्यर्थ. (रु) 3 तीच्छ्या- घ. कालभेदत्वात् ख ग. 5 तथासि - ख. ग