पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

554 श्रीरामाग्निचद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. २०, सू. १. (भा) बीहिभ्यो गां दीव्यताहि सन्त. परू षि विशसतेति सप्रैषमक्षान् यजमानाय प्रयच्छन् । परूषि - पर्वाणि । विशसत - विभजत । अहि- सन्तः कितवाः पर्वाणि परि गृह्णन्तु || - - 2 (सू) * कृतं यजमानो विजिनाति ॥१॥६॥१०५९॥ [यजमानस्य जयलाभप्रकारः] (भा) ममेद तवेदमिति तथा क्रियते यथाऽङ्गानि विजानाति कृतेन येन यजमानः || [वीहिभ्य इति विभक्तयर्थः हिंसारूपं च] (वृ) व्रीहिभ्यो प्रयच्छन्– – अस्यार्थः—— ब्रीहिसिध्यर्थं गा पण कृत्वा दीव्यत । अहिंसन्त - गोर्मारणमकृत्वा ॥ परिगृह्णन्ति — गोरङ्गानि कर्णादानि ॥ - [पणनेन व्रीहिसम्पत्तिप्रकाविवरणम्] कृतं य - विजिनाति–उपहरन्ति – अस्यार्थ. ; —कृत गृहीत्वा यजमानः विजिनाति जयति । कृतशब्द: चतुस्सङ्ख्यावचनः । कलिर्द्वापरः त्रेता कृतमिति अक्षपर्वणा सङ्ख्या । तत्र चतुष्क पर्वसङ्ख्यां गृहीत्वा यजमानो जितवानस्मीति गां गृहीत्वा तया च गवा क्रीत्वा श्रीहीन अवहत्यौदनं कृत्वा । सभासद्भ्यः - आधानप्रेक्षकेभ्यः ॥ 1 गृह्णन्ति -ख ग. 2 कृतत्रेताद्वापरकलिनामानो द्यूतप्रकारा ये कृतमयाना- मिति श्रुतावया इत्याख्यायन्ते । न्युप्तेष्वक्षेषु चतुष्कशो विभज्यमानेषु यत्र सर्वे भागास्समाभवन्ति तत्कृत नाम । अथ यत्रान्ततस्त्रयोऽवशिष्यन्ते सा त्रेता यत्र द्वौ स द्वापर यत्रैकस्स कलि । तथा च श्रुति, ये वै चत्वारस्तोमाः कृतं तत् अथ पञ्चकलिस्स इति । तत्राक्षाणा शतत्वात् कृतेन प्रकारेण यजमानो विजिनाति विजयते (रु). 8 विजिनाति कृतेनायेन यजमानम्-क. 4 पर्वणां ? - घ.