पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीराम।निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख. १६, सू. ३ 3. [शमने प्रकारभेदाः पक्षान्तरं च] (भ) अकृतशमनो ऽभिर्न स्प्रष्टव्यः । आज्येनौषधीभिश्च शमयितव्य । सर्वेष्वाधानेष्वाहुतित्रयेण नाहवनीय एव | उपदेश ३ एकैकया शम- नम् तृतीयया सभ्यावसथ्ययोरपि । बोधायनमतिश्च शमन व्याहृताभि- रमीन् शमयित्वेति । केचिदक्षिण मचाहवनीययोरिदानी कुर्वन्ति । नास्त्यभिमर्शनेनार्थः पूर्वमिति || 536 [ आहुतित्रयस्य सर्वसाधारण्य निर्वाहः संवादश्च] (वृ) सर्वेष्वाधानेष्वाहुतित्रयेण – व्यस्तनिर्देशेऽपि ससृष्टाभ्यामेव होमः । ओषधीराज्ये निषायेति हिरण्यकेशिवचनात् । आहुतित्र- यनिर्देशाच्च । इतरथा षड्भवन्ति ॥ [आहवनय मात्र विषयत्वशङ्कापरिहारौ] नाहवनीय एव -- यद्यपि तदनन्तरमुक्ताः अनभिहुतस्योप- स्पर्शननिषेधात् सर्वामीना शमनहोमाः ।। [पक्षान्तरयोराशयः] उपदेशए - मतिश्च – अभिपृथिवीगायत्रयादीनां गाईपत्यादिषु व्यवस्थया सबन्धो मन्त्रगतानाम् । अत एकैकया । बोधायनमताच व्यवस्था । अथवा बोधायनमतिश्च ॥ सर्वत्र - यित्वेति – सर्वत्र व्याहृतिभिश्शमनहोम इति बोधा- यन ॥ [पूर्वमभिमर्श नवैफल्योपपत्तिः] केचिद्दक्षिणा - पूर्वमिति–तेष्वभिमर्शन कार्याभावात् । अस्मा- देवाहवनीयोद्धरणे गार्हपत्यस्य काष्ठादिस्पशव्यवहितस्पर्शस्याप्युपस्पर्शन- त्वेनाभ्यनुज्ञानादकृतशमनस्यामे: काष्ठादिव्यवहितस्पर्शनमपि न कर्तव्यम् । आज्येनौषधीभिश्च जुहोतीति पुनर्वचनं समिदाघानेन विकल्पार्थम् ॥ 1 शमनो नस्त्र - क 2 णाहुतित्रयेण नाहुतित्र - क. ग. 8 एकैकथा-ग.