पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

514 श्रीरामाभिचद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. १०, सू. ९. 3 1 अपोय - अपनीय तस्मिन्नेवायतने मन्थति | शमीगर्भादिति ब्राह्मणम् ॥ (सू) उद्यत्सु 2 रश्मिषु दशहोत्राऽरणी ' समवद- धाति ॥ ८ ॥ १९ ॥ ९८९ ॥ (सू) [रश्म्युदयस्वरूपं मानं च] 'अनुदिते ये रश्मयः तेषूयत्सु । नक्त गार्हपत्यामितिवचनात् । सहानेsमिना जायस्व सह रय्या सह पुष्ट्या सह प्रजया सह पशुभिस्सह ब्रह्मवर्चसेनेत्यु पति- ष्ठत्यश्वेऽमिं मन्थति ॥ ९ ॥ २० ॥ ९९० ।। [उपस्थाने दिक् अरणिसमवधानेदेशश्च] (भा) ● सहाम इति प्रामुखोऽध्वर्युः । प्राच्यामरण्यां त्वक्तः अपरस्मिन् प्रदेशे । [शमीगर्भादिति सूत्रे पाठस्य प्रयोजन पक्षभेदेन] (वृ) अपोह्या ब्राह्मणम् – ब्राह्मणपाठ सूत्रकारेण बद्धः न त्वशमी- गर्भनिवृत्त्यर्थः ॥ उपदेशस्तु तस्मिन्नेवायतने शमीगर्भादमिं मन्थति । अशमीगर्भादन्यत्राप्ययमेव सिद्धान्तः । पूर्वस्मिन् पक्षे शमीगर्भग्रहण- स्यानर्थक्यात् || [ भाष्योक्तप्रदेशेमानम् उपस्थाने अश्वसम्बन्धश्च] सहान इति - प्रदेश – योनिदेश, विखनसोक्तेः । उपतिष्ठति- समीपेऽश्वे तिष्ठति ॥ अयं ग्रन्थ ग पुस्तके न दृश्यते 2 प्राच्याजातप्रकाशायामित्यर्थ । अन्यथा अर्घोदिते सूर्य आहवनीयमित्यनेन विरोधात् नक्तगार्हपत्यमितिश्रुतेश्च (रु). 8 अधरस्यामुत्तरां स्थापयति । तत्र प्रतीचीनप्रजननामरणिं निधायेति बोधायन. (६) 4 उपतिष्ठति समीपस्थे (रु). 6 अनुदिता - क 2 8 समापेऽश्वेतिष्ठतीति सह-