पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1x11 संहारे अन्ते हरौ तद्दर्शनात् ' इत्यादिना तत्रत्यान्तिमसूत्रप्रदर्शनेन तत्ववित्संप्रदाय इत्यनेन च उपदेशप्राप्तमेतावदेव, प्रत्येकभाग- प्रतिपाद्यग्रहणं तु तत्सद्भावसाध्यं न संभवतीदानी मित्याविष्कृतम् । तत्वटीकायाम् 'तर्किते कर्मणि सङ्कर्षकाण्डे चतुर्लक्षण्या तत्त- त्कर्माराध्यदेवतैव स्वरूपभेदगुणप्रकर्षैर्निरकृप्यत इति श्रीसूक्ति दर्शनात्, तत्तनयैर्वरदनाथाचार्यैः- - स्वरूपमादौ तद्भेदस्तदुगसन पूर्वकम् । फल च देवताकाण्डे देवतानां निगद्यते ॥ इति संगृहीतम् । एवं परिचिन्तनीयायां च वस्तुस्थितौ आनन्द- गिरीणां सङ्कर्षपदविग्रहणं पर्यालोचयद्भिः देवता विचारभागमनु पलभमानैश्च स्थितगतिचिन्तनाय प्रयस्यद्भिः सङ्कर्षे कर्मविचारभाग एव कांश्चन विचारान् परिगृह्य तावन्मात्र एव देवताकाण्डत्वप्रसिद्धि मूलत्वोपपादनाय प्रववृते । न च तावता सांप्रदायिकस्य संप्रति- पन्नस्य च देवताकाण्डस्य देवताविचारेणोपसंहारपरस्यापलाप उचित इत्यनुसंदधते । तत्र धूर्तस्वाम्यनूदिताविषयेषु तु;- १. तत्र 'दीक्षणीयाग्नेस्तु धारणम्' इत्यंश सङ्घर्षकाण्डे पञ्चदशेऽ- ध्याये द्वितीये पादे 'दीक्षिताग्नेः' इत्यनेन सूत्रेणोच्यते । २. सङ्कर्षकारस्य प्राजहितमित्युक्तांशश्च सङ्कर्षकाण्डे तत्रैव 'सवैव स्यात्' इति सूत्रेणोच्यते । .३. सर्वस्य सङ्कर्षकारस्य इत्युक्तांशस्तु सङ्कर्षकाण्डे न दृश्यते । मन्त्रेणाष्टिं परिधीयते इत्यंशस्तु सङ्कषकाण्डे १३शेऽध्याये ४पादे विचार्यते इति व्याख्ययाऽवगम्यते । ५. ६ अन्यैव सा यत्र तुल्यः पदाभ्यासः इत्यंशस्तु सङ्कर्षकाण्डे सूत्रेषु नोपलभ्यते । सङ्कर्षकारस्य तु पूर्वयोपधानमुत्तरयाऽभिमर्शनम्' इत्यंशस्तु सङ्कर्षकाण्डे १४ शेऽध्याये १मे पादे |