पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

lx यां देवतां वषट्करिष्यन् स्यात्तां मनसा ध्यायेत् इति देवतावाचिशब्दध्यानविधिः देवतार्थध्यानविधिर्वा ? – ७. यजेति द्वयक्षरं ये यजामह इति पञ्चाक्षरं इति विहितयोर्यजयेयजामहयोरनिं विष्णुमित्यादिद्वितीयान्तदेवतानां निर्देशः कार्यो न वा १ - ८. आवह देवान् यजमानायेति प्राकरणिकसकलदेवताविषयो वा अग्निमन आवहेत्यादिनिर्देक्ष्यमाणाग्नयादिदेवतामात्रविषयो वा ? - ९. देवान् यजेति प्रथमानूयाजोपक्रमप्रैषे देवानिति शब्दः प्रथमानूयाजदेवताविषयः सर्वानूयाजदेवताविषयो वा ? – १०. इत्यादि देवताविचारभूयस्त्वात् भूना संकर्षकाण्डस्यैव देवताकाण्ड इत्यपि व्यवहारोऽस्तीति तस्य तेनोपादानम्' इति रत्नप्रभाकारान्तैरद्वैतिभिर्निर्विशया भ्युपगतं देवताकाण्डशब्दप्रधान- व्यपदेश सूत्रकलापं श्रीभाष्यकारप्रशिष्यवचनसंप्रतिपत्तिमूल विशिष्टाद्वैतिसर्वनिबन्धसंमतं स्वयमपलपन्त एवोपपादयन्ति । संप्रदायविदस्तु- धूर्तस्वामिना संकर्षस्थविचारोदाहरणात् शबरस्वामिनाऽपि १०-४-३२ सूत्रे १२-२-११ " सूत्रे च ' इति संकर्षे वक्ष्यते' इत्युक्तेश्च कर्मविचारस्संकर्षे वर्तत इत्यविवाद मेव । संकर्षे देवताविचारसद्भाव तदभावौ न धूर्तस्वामिवचसाऽवगम्येते । शंकराचार्यैश्श्रीभाष्यकारैश्च तदुदाहरणं प्रपञ्चहृदये देवताकाण्डे संकर्षणेन भाष्यप्रणयनोक्तिश्च देवताविचारपरत्वं संकर्षस्यास्तीत्यग्यवगमयति । द्विकाण्डे धर्म- मीमांसाशास्त्र संकर्षकाण्डं द्वितीयमुपेक्ष्य शबरस्वामिना भाष्य- प्रणयनमुक्का; तथा देवताकाण्डे इति देवताकाण्डपदेन कञ्चिद्भागं प्रतिपादयतः प्रपञ्चहृदयकारस्य शबरोपेक्षित एव भागों विवक्षित इति हि स्फुटमेव : तदतिरिक्त विवक्षायां विंशत्यध्यायात्मक- त्वोक्तछुपरोधात् । इत्थं च संकर्षकाण्डं कर्मदेवतावित्राररूपम: तत्र कर्मविचारो द्वादशाध्यायीविचारितगेषभूत एव विवाति- शयमूलः, देवताविचारस्तु प्रधानः, तत्स्वरूपादे: पूर्वममि- रूपितत्वात् , अतः प्रधानदेवताविचारत्वमूलकं तस्य देवताकाण्ड