पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्खं १५, सू. २] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने तुरीय पटलः अगन्म सुवस्सुवरगन्मेत्यादित्यमुपतिष्ठते || ।। ११ । २० ।। ७९९ ॥ चतुर्दशी खण्डिका ॥ (सू) उद्यन्नद्य मित्रमहस्सपलान्मे अनीनशः दिवै- नान् विद्युता जहि निम्रोचन्नधरान् कृषि । उद्यन्नद्य विनो भज पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे तस्य नो देहि सूर्य । उद्य- अद्य मित्रमह आरोहन्नत्तरां दिवम् । हृद्रोगं मम सूर्य हरिमाणं च नाशय । शुकेषु मे हरिमाण रोपणाकासु दध्मसि । अथो हारिद्रवेषु मे हरि- माणं निदध्मसि । उद्गादयमादित्यो विश्वेन सहसा सह । द्विषन्तं मम रन्धयन् मो अहं द्विषतो रघम् । यो नश्शपादशपतो यश्च नश्शपत- इशपात् । उषाश्च तस्मै नियुक्च सर्व पाप समूहतामिति च ॥ १ ॥ २१ ॥ ८०० ॥ 1 तेषां [ उपस्थानपुत्रनामग्रहणांदरात्म संस्कारत्वम्] (भा) आत्मसस्कार एवादित्योपस्थान पुत्रनामग्रहण च । कर्माङ्गत्वात् । उपस्थानस्य कर्तृसस्कारत्वसम्भवात् । पुत्रनामग्रहण च आत्मसम्बन्धित्वादात्मसस्कार | (सू) ऐन्द्रीमावृतमन्वावर्त इति प्रदक्षिणमावर्तते ॥ ॥ २ ॥ २२ ॥ ८०१ ॥ 423 1 तेषाम कर्माङ्गत्वात् - क घ