पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १४, सू १० [विष्णुक मादेर्व्यतिपकत्वपक्षस्वरूपम् ] (भा) व्यतिषक्तेषु विष्णुक्रमेणावस्थाय विष्ण्वतिक्रमातिमोक्षजपः । व्यतिषक्ताने के समामनन्तीति || [बरुणप्रघासेषु विशेषः] 422 (सू) उत्तरे बिहारे विष्णुक्रमादि अवेदिसस्कारत्वावरुणप्रघासेषु ॥ अग्निना देवेन पृतना जयामीति विष्ण्वति- क्रमाः । ये देवा यज्ञहन इत्यतिमोक्षाः ॥१०॥ ॥ १९ ॥ ७९८ ॥ [ व्यतिषङ्गपक्षविवरणम्] प्रथम 1 2 (वृ) व्यतिषक्तेषु ढानेके इति - व्यतिषङ्गस्ससर्ग. । विष्णुक्रम कृत्वा विष्ण्वतिक्रमाणां प्रथम जपेत् । अथातिमोक्षाणां प्रथमम् । अथ द्वितीय विष्णुक्रम कृत्वा द्वितीय विष्ण्वतिक्रमम् द्वितीयविष्ण्वतिक्रमातिमोक्षजपः । तथा तृतीये । तूष्णीं चतुर्थ विष्णुक्रमेणावस्थाय तन्मन्ब्रजप । एष विष्णुक्रमविष्ण्वतिक्रममोक्षाणा व्यतिषङ्गपक्ष ॥ [विनिरूढपक्षविवरणम्] विनिरूढम्यैव प्रयोग., अव्यवधानेन विष्णुक्रमचतुष्टय कृत्वा विष्ण्वतिक्रम’त्रयमुक्ताऽतिमोक्षत्रय जपेत् । बिष्वतिक्रममोक्षाणा देशा- तरविंधानाभावात् अन्त्यविष्णुक्रमदेश एव स्थित्वा तेषा जपः । तदाह — विष्णुक्रमेणावस्थाय विष्ण्वतिक्रमातिमोक्षजप इति ॥ [भाष्यदर्शितविशेषविवरणम्] - उत्तरे विहारे - घासेषु - वेद्या विष्णुक्रमादिकरणेऽपि नवेदि- सस्कारार्थता । विष्णुरेव भूत्वा यजमान इति वाक्यशेषात् यजमान- 2 तथा - घ 4 ड़ पक्षस्यै घ 4 त्र्यं जपित्वा, 1 तथा घ.