पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवदेवस्तु तौतातितमर्तातलकस्य कौमारिलग्रन्थगूढभावा- विष्करणपरस्य रचयिता सोमनाथखण्डदेवादिभ्यः प्राचीनः पूर्व- मीमांसकाग्रणीरित्यवगम्यते । - सङ्कर्षः, - धूर्तस्वामी स्वभाष्ये इष्टिकल्पभाष्यान्ते 'अन्यैव सा यत्र तुल्यः पदाभ्यास इति सङ्कर्षपक्षः' इति, १० मे प्रश्न :- दीक्षणीयाग्नेस्तु धारणं हिरण्यकेशि सङ्कर्षवचनात् 29 " 22 " lv " 'मन्त्रेणाग्निष्टं परिधीयत इति सङ्कर्षकारमतिः' इति, 'सङ्कर्षणकारमतिः परिव्ययणविधानेन ' इति, 'सङ्कर्षणकारस्य तु पूर्वयोपधानं उत्तरयाऽमिमर्शनम्' इत्येवं सङ्कर्ष-सङ्घर्षकार-सङ्कर्षणकारशब्द. निबन्धं निर्दिशति । 'सङ्कर्षपक्षः' 'हिरण्यकेशिसङ्कर्षवचनात् इति वाक्ययोध हिरण्यकेशिपदसमभिव्याहारपर्यालोचनया सङ्कर्षशब्दो निबन्धूपरो ऽपि प्रयुक्त इत्यवगन्तुमस्त्यवकाशः । ‘तदुक्तं साङ्कर्षणे ' इत्यारभ्य तद्वचनोदाजिहीर्षुभिश्च श्रीभाष्य- कारैरपि सङ्कर्षणो निबन्धकारोऽभिप्रेत इत्यवगम्यते । ८ ' सङ्कर्षः काशकृत्स्नप्रभव' इति तत्वरत्नाकरकारवचनाच सङ्कर्ष इति निबन्धनिर्देशोपीत्यवगच्छामः । , इति, 6 • हिरण्यकेशिनस्सङ्कर्षकारस्य च प्राजहितम्' इति, सर्वस्य सङ्कर्षकारस्य ' इति, ८ सङ्कर्षपदं सङ्कर्षणपदं वा निवन्धार व्यपदिशतु तन्नाम्ना च निबन्धस्यापि व्यपदेशः प्रचरतीति यथायथं व्यपदेशद्वयमुपपाद- यतोऽपि कोऽसौ सङ्कर्ष सङ्कर्षणो वा इति विशय परं विनैव विचार नोपशाम्येत् । अत्रेत्थ मीमांसेतिहासं कचिदाकलयामः, - षोडशाध्याय- निबद्धं पूर्वमीमांसाशास्त्रं जैमिनिकृतम् । तदन्यदध्यायचतुष्कं व्यास- कृतम् । विंशत्यध्यायनिबद्धस्य मीमांसाशास्त्रस्य कृतकोटिनामधेयं भाष्यं बोधायनेन कृतम् |