liv तथापि मद्रपुरस्थप्राच्यकोशाग (रस्थसविमर्शसूच्यां भव स्वामिभाष्योपसंहारादौ पञ्चसहस्रेत्यादि दर्शितवाक्यादर्शनात् तथा लेखनं कस्यापि स्वमतिविजृम्भितमूलकं स्यादिति निश्चिनुमः । शबरस्वाम्यग्निस्वामिभवस्वामिधूर्तस्वामिकपर्दिस्वामिनः निष- मङ्गलवाक्यप्रयोगमुपेक्षितवन्त इत्येतदपि निबन्धनं Fधादौ भवितुमर्हति नय विवेकादौ मङ्गलपद्यं घटयतो भवनाथस्य न तेषु परिगणना युज्यते शालिकनाथादर्वाचीनस्येत्यत्र । न ह्येक एव निबन्धकृत् एकत्र स्वनिबन्धे मङ्गलपद्यं घटयन् अन्यत्राघटयंश्च प्रणयेन्निबन्धमित्यभ्युपगन्तुं शक्यते । भट्टभास्कर- मिश्रश्च स्वीये ज्ञानयज्ञाख्ये वेदभाष्ये आढौ- वाक्यार्थैकपराण्यधीत्य च भवस्वाम्यादि भाष्याण्यतो भाष्यं सर्वपथीनमेतदधुना सर्वीयमारभ्यते ॥ इति स्वस्य ग्रन्थप्रणयने स्वामिभाष्य कीर्तयति । एवम्, वाक्यार्थधीवैद्यहेतुतया भव प्रणम्य शिरसाऽऽचार्यान् बोधायनपुरस्सरान् । इनि बोधायनमुनेरादौ प्रणतिं प्रतिपादयति । तत्र विविधेतिहासविवरणादिघटितकल्पसूत्रप्रवर्तकतया बहु- तरवैशद्यमूलं बोधायनमुनिरिति तम्नतिर्घटते । भवभाप्याध्ययनेन वेदभाग्यप्रणयनवचनं तु कल्पसूत्रभाष्य- ग्रहणेन नोपपादनमर्हति । विनियुक्तमन्त्राणां तत्र तत्र वाक्यार्थवर्णन- संग्रहसम्भवेऽपि 'वाक्यार्थैकपराणीति' विशेषणस्वारसिकसम- न्वयस्य कल्पभाष्ये दुर्घटत्वात् वेदभाष्यमेव तत्र भाष्यपटेन निर्दिष्ट- मित्यवश्यं वाच्यम् । छन्दोनिक्तकल्पव्याकरणादिषोडशविघपरि- करविशढीकरणेन व्याचिकीर्षुर्हि भास्करमिश्रः वाक्यार्थैकपरत्वं भवभाष्ये कीर्तयन् निखिलवाक्यविवरणरूपतां वदन्नेव तस्यापुष्कल- परिकरता मन्यते ! किमुत कतिपयमन्त्रवाक्यविवरणसमूहपरे कल्पभाष्ये । ततश्च वेदभाष्यस्थमेव रामाण्डारोदाहृतं भवस्वामिवचनं स्यादित्यध्यवस्यामः । तदीयं वेदभाष्यं तु वयं नोपलभामहे ।
पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५४
दिखावट