पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

372 (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 'अथादित्यमुपतिष्ठते । सम्राडास व्रतपा असि व्रतपतिरसि तत्ते प्रब्रवीमि तच्छकेयं तेन शकेयं तेन राध्यासमिति ।। ४ ।। २५ ।। ६९६ ॥ 1 [आदित्योपस्थानान्तकर्मणोऽङ्गत्वं क्वचित्तदभावश्च] (भा) पयस्वत्याद्यादित्योपस्थानान्त व्रतोपायनाङ्गम् | तस्य सोमेष्टिषु निवृत्ति ॥ वचन च ॥ 4 [खं ३, सू ४ [ व्रतस्वरूपम् ] सत्यवाद्यत इति वाजसनेयिनाम् ; मयि दक्षऋतू इति [व्रतोपायनाङ्गत्वोपपत्त्यादि । - (वृ) पयस्वत्याद्या - ङ्गम् - बर्हिषा पूर्णमासे व्रतमुपैतीति प्रकृत्या- म्नाय आदित्योपस्थाने * व्रतलिङ्गात् ॥ तस्य - निवृत्तिः– प्रायणीयादिषु ॥ - [भाष्योक्तिपूरणम् तदुपपत्तिश्च भाष्यकारपक्षश्च] सत्यवा नेयिनाम् - व्रतस्वरूपनिर्णयः । अत उर्ध्वं सत्य- वादी भवामीति सकल्पपूर्वकं सत्यवादिता व्रतशब्दस्यार्थः । " सा च ' क्रत्वङ्गत्वेनोपेयते । आहिताभिव्रत एवासत्य वदनप्रतिषेधात् ॥ 5 6 मयि दक्ष - चनञ्च - व्रतोपायनप्रकार इति वाजसनेथिनः । 'प्राणापानावेवात्मन् धत्ते' इति आत्मनि प्राणापानधारण सकल्पश्च व्रतम् । स्वपक्षस्तु व्रत्ये ह्याने मांसं वाऽश्नाति स्त्रियं वोपैतीति दर्शनात् तयोर्नि- वृत्तिसकल्पो व्रतम् । असत्यवदनप्रायश्चित्त तु इहान्तरेणापि वचन भवति । असत्यप्रतिषेधे स्मृतिसिद्धेऽपि पुनराहितामिप्रकरणे निषेधात् || 1 आदित्यमु—ख अत्र उपनिष्कम्योपस्थान अत्रैव तिष्ठत इति पक्षद्वयं दर्शितम् (रु) 2 वाग्यत-ख ग 8 नानादादित्यो 4 ने च-घ. 6 स च -क. 8 कत्वशेनोपे–ख, ग. 7 वादनप्रति - क. 8 नेयिमतम्-क