पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामा मिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ख १४, ३ [निगूहनस्यानुकल्पः] (भा) योपवेष इत्युत्करे प्रहरणम् । उपवेषोपगूहनप्रत्याम्नाय । [द्वेष्यनिर्देशे विशेष:] अत्रैव मन्ये नामग्रहणं शत्रो । निरमु नुद इति । [निरसनविनियोज्यमन्त्रा:] तिसृभि. ऋम्भिर्यजुभ्यां च निरसनमुपवेषस्य || 288 (सू) अवसृष्टः परापत ' शरो ब्रह्मस शितः । गच्छामित्रान् प्रविश मैषां कं चनोच्छिष 2 इति वा ॥ ३ ॥ ११ ॥ ५९५ ।। [पञ्चानां स्थाने] (भा) अभिचारनिमित्तप्रतिपत्त्यन्तरविधा- (वृ) योपवे - हरणम् – नायः नात् नित्यस्याविकारो न तु समुच्चय | प्रहरण - निरसनम् || [द्वेष्यनामग्रहापेक्षिता विभक्तिः भाष्ये एवकारार्थः] अत्रैव - शत्रोः – योपवेषे शुक् साऽमुमृच्छात्वित्यत्र अमुम् इति शत्रोर्नाम द्वितीयान्त गृह्यते ॥ - • निरमुं- मुपवेषस्य – योपवेष इति प्रथमं यजु द्विष्मान्तम् । निरमुं नुद इति तिस्र ऋचः । हतोऽसाववधिष्मामु इति पञ्चमं यजुः । नात्रामुमित्यस्य स्थाने शत्रोर्नामोच्चारणम् ब्राह्मणे अथास्मै नाम गृह्य प्रहरतीति नामग्रहणमुक्त्वा तत उत्तर निरमु नुदेति विनियोगात् । हतोऽसाववषिष्मामुमित्यत्र तु शत्रोर्ध्यान न तु नामनिर्देशः । य द्विष्यात ध्यायेदिति विधानात् ॥ अवसृष्ट इति वा ॥ अवसृष्ट इति वा – पञ्चभिर्विकल्प्यते । - 1 शरव्ये ? – क. 2 अनन्तरविधावेवाय मन्त्रविकल्प