पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १४, सू २ ] आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्ने तुरीय पटलं (भा) (सू) (सू) ननपगान् कुर्विति पुरस्तात्प्रत्यञ्चमुत्कर उपवेषं ' स्थविमत उपगृहति ॥ ८ ॥ ५९१ ॥ ॥ त्रयोदशीखण्डिका ॥ [उपवेषस्वरूपम्] अग्र स्थविमत् – स्थूलम् । मूल तनूपवेषस्य ॥ यद्यभिचरेद्योपवेषे शुक् साऽमुमृच्छतु यं द्विष्म इत्यथास्मै नाम गृह्य प्रहरति ||१||९||५९२ || निरमुं नुद आकसः सपत्नो यः पृतन्यति । निर्बाध्येन हविषेन्द्र एणं पराशरीत् । इहि तिस्रः परावत इहि पञ्चजना अति । इहि तिस्रोऽतिरोचना यावत्सूर्यो असद्दिवि || परमां त्वा परावतमिन्द्रो नयतु वृत्रहा । यतो न पुनरायसि शश्वतीभ्यस्समाभ्य इति हतोऽसाववधिष्माममित्ये ताभिः पञ्चभिर्निरस्येत्रि- खनेद्वा ॥ २ ।। १० ।। ५९३ ।। 2 3 287 (वॄ) अग्रं – पवेषस्येति – पुरस्तात्प्रत्यञ्चमुत्कर उपवेषं स्थविमत उपगूहन्तीति वचनात् उपवेषस्याग्र स्थविष्ठम् || (रु) 1 स्थविमत – स्थूलमूलप्रदेशादारभ्य उत्करपासुषु पुरस्ताद्भागन प्रत्यगुपगूहा यद्यभिचरितुमिच्छेदशास्मै नामगृय अस्याभिचर्यमाणस्य नाम । योपवेषे शुक सा देवदत्त मृच्छत्विति गृहीत्वा उत्कर एव प्रहरति वज्रवत् तद्धिसार्थतया क्षिपतीत्यर्थ । अथवा अस्मै - एनमुद्दिश्य तस्यैव नाम गृहीत्वा प्रहरतीत्यर्थ । (रु). 3 स शश्वतीभ्य - क. 4 यजुष्वेऽप्यन्त्ययो ऋग्बाहुल्यादेताभिरिति स्त्रीलिङ्गनिर्देश तत्र च ऋग्यजुर्विवेचनार्थ प्रथम इतिकरण । शत्रुनामग्रहणार्थो मोष्वदश्शब्द. | निरस्येत् - निर्णुदेदुत्करे | निखनेत् - निहन्यात् शत्रुवत् (रु)