xl11 ८ , यदि च 'कर्मापेक्षाभिसन्धि वचन विवृणुते तत्समुश्चित्य- वादः ' (तत्वमु जीवस ३३) इति तत्वमुक्ताकलाप विवरणे ;- 'हतं ज्ञानं क्रियाहीनं हता चाशानिनां क्रिया । इत्यादिषु द्वयोस्समुच्चितवद्वादः- कर्मसापेक्षत्वाभिसन्धि व्यक्ति इति सर्वार्थसिद्धयनुगृहीतरीत्या, 'विद्यासहितस्यैव वीर्यवत्तरत्व- श्रुतेः ' इति 'विद्याया अविद्याकार्यत्वं गम्यते' इति च चदत एव ज्ञानसमुच्चयवादस्य कर्मणो विद्याशेषत्वाभिसन्धिसन्धुक्षकत्व- संभव इति परिशीलयामः तदा एतौ विशिष्टाद्वैतनिष्ठावेवेन्यव- गन्तुं पारयामः । युज्यते चैवमवगन्तुम् । यतः -- त्रिकाण्डीमण्डने भास्करसोमयाजी. यद्वा वसन्तकालादिजीवनाख्यनिमित्तवान् । सोमेन यजते ब्रह्मविद्याशेषतयाऽथवा ॥ (१ का ३८) इति प्राचीनकल्पसूत्रभाष्यतड्याख्यातृपरम्पराप्राप्तं पक्षं अधिकार- निरूपणेऽनुवति ॥ सोऽयं पक्ष एतयोरपि भाष्यवृत्तिकृतोरिति निर्णेतुमयस्त्यव- काशः । " च एवंविधं अन्तर्यामिब्राह्मणवाक्यतात्पर्यवर्णनं श्री- भाष्यकारोपक्षं ततः प्राचीनेषु ज्ञानकर्मसमुच्चयशब्देन मोक्षसाधन- निर्देशकेषु कथङ्कार घटताम् ? इति वाच्यम्, अस्याइशङ्काया मण्डनमिश्रवाचस्पतिमिश्राभ्यामेव परिहारात् । तथाहि विधि- विवेके (२४ पु ) विधिपदार्थे प्रक्रान्ते - 'वेदात्मनोऽभिप्राय इत्यति स्थवीय' इत्युक्तम् । - अत्र वाचस्पतिमिश्राः –'येऽपि वेदान्तवाढिनोऽपौरुषेय- मङ्गीकृत्य वेदं वेदशरीरिणमन्तर्यामिणमा स्थिषत–'अधाधिदेवम्-- यस्सर्वेषु वेदेषु तिष्ठन् सर्वेभ्यो वेदेभ्योऽन्तगेयं सर्वे वेदा न विदुर्यस्य वेदाश्शरीरं यस्सर्वान् वेदानन्तरो यमयति एष त आत्माऽन्तर्यास्य- मृतः इति श्रुते. ' इति व्याचख्युः । अनेन विवरणेन च निखिलचेतनाचेतनशरीरकत्वं भगवत उप- निषदभिप्रेतमिति मण्डनमिश्रादपि पुरातना वेदव्याख्यातार आति- छन्त इति सिद्धं भवति ।
पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४२
दिखावट