पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ३, सू. १४] । आपस्तम्बश्रौतसूत्रे तृतीयेप्रश्ने प्रथम पटल. 249 (ख) 'अपि वा द्विरुपस्तृणाति द्विरादधाति द्विरभिघारयति ॥ ७ ॥ ३० ॥ ४८९ ॥ (ख) अनेरागीध्रमस्यनेइशामित्रमासि नमस्ते अस्तु मा मा हिसीरित्याग्नीध्रो भक्षयति ॥८॥ ॥ ३१ ॥ ४९० ॥ (स्व) वेदेन ब्रह्मयजमानभागौ परिहरति ॥ ९ ॥ ॥ ३२ ॥४९१ ॥ (ख) *पृथक्पात्राभ्यामितरयोः ॥ ३३ ॥ ४९२॥ (ख) पृथिव्यै भागोऽसीति होता भक्षयत्यन्तरिक्षस्य भागोऽसीत्यध्वर्युर्दिवो भागोऽसीति *ब्रह्म ॥ ॥ ११ ॥ ३४ ॥ ४९३ ॥ (ख) दक्षिणाग्नावन्वाहार्यं महान्तमपरिमित- मोदनं पचति ॥ १२ ॥ ३५॥४९४ ॥ (दू ) क्षीरे भवतीत्येके ।। १३ ॥ ३६ ॥४९५॥ (सू) तमभिघार्यानभिघार्य वोद्वास्यान्तर्वेद्यासाद्य ॥ ॥ १४ ॥३७॥ ४९६ ॥ तृतीया खण्डिका 1 अथवा प्रथममेव द्विरुपस्तीर्य ततो द्विरवदाय द्विरभिघारयति () 2 वेदेन हृत्वा यथास्थानमासीनाभ्या प्रयच्छति (रु) 3 भागौ परिहरतीति शेष । वेदादन्येन पात्रेण होतुर्भागम् , ततोऽन्येन पात्रेण इत्यर्थ (). चात्मन ॐ ब्रह्मण स्वक त एव भक्षणम् (रु) 5 अन्वाहार्य -दक्षिणार्थ ओदन (रु ) 6 महान्तम्--यथविरभ्य पर्यं प्तो भवति अपरिमितामिति प्रस्थादिना तण्डुलपरि माणप्रतिषेध (रु)