XXXII इत्थं च संहितारूपेणैवाध्यापनेन प्रचार्यमाणं सूत्रवृन्दं सांप्र- दायिकार्थानुसन्धानसरण्या क्लृप्तविभागयैवानुपूर्व्या भाष्यकार- प्रभृतयोऽनुसमदधुः । स च पर्यपाल्यतैव यथायथं व्याख्यातृभिः यथा रुद्रदत्तेन इति सिद्धम् । - अयं चांशः भाष्यवृत्तिकारवचोभिरष्यवगम्यते, तथाहि - इति सूत्रच्छेदः । पादम्' इत्यन्तमेकं सूत्रम् | उभयत्र सूत्रे मन्त्रयोर्विरोधपरिहारार्थ भाष्यम् । ब्रह्मप्रकरणोक्तस्य कालविधानमेतत्सूत्रम् । दीप्यमानं परापश्येत्तत आहृत्याग्नि कल्पयेदित्येकं सूत्रम् | नहीन मन्वाहरेयुरिति सूत्रमर्थसंगत्या उत्कृष्यव्याख्यायते । सूत्रक्रमेण मन्त्राणां सूत्रकारपाठस्य विवक्षितत्वात् । तथाग्निराधेय इत्येकं सूत्रं न भवति । तौ न पशौ करोति इत्यनेन सूत्रेण प्रतिषेधः । न सोमे इति सूत्रान्तरेण । हृदयम भिघारयतीत्यन्तमेकं सूत्रम् | इति भाष्यकारवृत्तिकारवचनानि तत्र तत्र सूत्रभागनिर्णायकतया प्रवृत्तानि तत्र मतिभेदसंभवं तन्निरासं पाठसम्प्रदायस्य सूक्ष्मेक्षिका ग्राह्यतां तन्मूलभूतं तदाम्नान सम्प्रदायभेदं च ग्राहयन्ति । सत्यपि सत्सम्प्रदायपरिपालनश्रद्वापौष्कल्ये सूत्रकारभावपरि- ज्ञानसंप्रदायपरिरक्षणं कचित् केनापि कारणेन दौष्कर्यग्रस्तमपि भवितुमर्हतीति कपर्दिस्वामिभाष्यादवगम्यते । यतो हि —— भुवो- क्थ्येन रथन्तरसाम्ना भूतिकामो यजेत' इत्यस्मिन् (५२-६-२६) सूत्रे ' न विद्यते ताण्डिनामिति न शक्यते व्याख्यातुम इति भाग्य ग्रन्थो दृश्यते । आपस्तम्बकल्पभाष्यभागव्यवस्था. आपस्तम्बकल्पसूत्रं धर्तखामि कपर्दिस्वामिभ्यां साम्प्रदायिक- गूढभावाविष्करणपरभाष्यभागाभ्यां भूषितं विराजत इत्यधूम |
पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३२
दिखावट