पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xxxi श्रौतविधिग्राह्ययज्ञापेक्षितांशपरिभाषणात् श्रौतयज्ञा एव प्रथमं व्याख्येयतया परिगृहीता मुनिनाऽऽपस्तम्बेन । गृह्याणां तु कर्मणां उत्सन्नपाठब्राह्मणमूलकतया श्रौतविधिग्राभ्य उत्तरभावित्वं युक्तम् । विभागे गृह्यकर्मणां प्रथमनिर्देशस्तु प्रथमानुष्ठेयता प्रयुक्त इति । उक्तचैतत् गृह्यतात्पर्यदर्शने सुदर्शनाचार्यै:-

~-यत एव आचा-

रानुमेय वेदावगम्यानि कर्माणि अत एव तेभ्य प्रथममनुष्ठेयेभ्योऽपि पूर्व श्रौतानां व्याख्यानं कृतम् इति । प्रत्यक्षचतिविहितेषु जिज्ञासायाः प्रथमभावित्वात् अनुमित वेदार्थजिज्ञासायाश्चरमभावित्वात् इति च । ‘प्रोक्षणीसंस्कारः पात्रप्रोक्ष इति दर्शपूर्णमासवत्तूष्णीम् 'इति गृह्यसूत्रमप्येनमर्थमभिप्रैति, न हि सूत्रकारो मुनिरनिरूपितपूर्वमर्थ- मतिदेश्यं मन्यते । सूत्रपाठसम्प्रदायः आपस्तम्बकल्पसूत्रेषु संहितारूपेणैव पाठः खण्डिकारूपा एव त्ववान्तर विभागाः कतिपय खण्डिकाभिश्च पटलाभिधाना विभागाः पटलैश्च कतिपयैः प्रश्नाः इति स्थितिर्दृश्यते प्रायो लिखित सूत्रकोशेषु । वेद्भाष्यकृतस्सायणाचार्या अपि तत्रतत्र अनुवाकारम्भादिषु अत्र कल्प. इत्युपक्रम्य वाक्यान्युदाहरन्ति, न च तानि खण्डात्म कानि वा सूत्रात्मकानि वा दृश्यन्ते, किंतु तत्तदपेक्षितवाक्यसमु दायात्मकान्येव । रुद्रदत्तवृत्त्या सह क्यालेड्नाम्ना हूणेन मुद्रा पिते जर्मनभाषारूपेणानूदिते तु संपुटत्रयं विभक्तसूत्रक्रम चतुर्विंशति- प्रश्नघटितमेव विलसति । वाजपेयादिभागे कपर्दिभाष्येऽपि प्राय- सूत्रपरिग्रहेण विवरणं दृश्यते । अनेन च कल्पसूत्रेष्वेषु सूत्र- बिभागेन पाठोऽपि साम्प्रदायिक इत्यवगन्तुं शक्यते ।