पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

132 (सू) (सू) (भा) (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने सप्तम पटलः [खं. २२, सू २. 1 दासी पिनष्टि पत्नी वा ।। ८ ।। २९ ।। २१२॥ अपि वा पत्नयवहन्ति शूद्रा पिनष्टि ॥ ९ ॥ ३० ।। २१३ ।। शूद्रा - अदारा ॥ २१३ ॥ ‘आहवनीये गार्हपत्ये वा हवींषि अपयति ॥ १ ॥ १ ॥ २१४ ॥ " दृष्टिसि ब्रह्म यच्छेत्युपवेषमादाय रक्षसः पाणि दहाहिरसि बुधिय इत्यभिमन्त्र्यापाग्रेऽग्नि- असवपन्ती- -न सर्वान् सह क्षिपन्ती पिषाणूनि कुरुतादिति पत्नयादेः प्रैषान्न सहाधिवाप ॥ - (सू) इत्येकविंशी खण्डिका ॥ इत्यापस्तम्बश्रौतसूत्रधूर्तस्वामिभाष्ये षष्ठ पटल ॥ [दारभिन्नपरताहेतुः] शूद्रा अदारा - दासी पिनष्टि पत्नी वेति विधानात् न क्रम- विवाहप्राप्ता शूद्रा || इति श्री कौशकेन रामानिचिता कृताया धूर्तस्वामिभाष्यवृत्तौ षष्ठ पटल ॥ 1 पत्ना पिनष्टि दासी वा - क 2 ते अपि कृष्णाजिन एव पिंष्ट (रु) 8 पूर्व पत्नया फलीकरणावघातमुक्त्वा तत पेषणेऽपेि दास्या सह विकल्प उक्त । अनेनैव पुन पेषणे दास्या नियमो वर्ण्यते । पत्नयवघातमेवकरोति, न पेषणम् ? तत्तु शूद्रा दास्येव करोति (रु) 4 अधिकार।दौषधहविर्विषयोऽयमग्निविकल्प हवींषीति बहुवचनमैन्द्राग्नापेक्षया सांनाय्ययोस्तूपदेशातिदेशाभ्या गाईपत्य एव व्यवतिष्ठते श्रपणम् । (रु) 5 अभिमन्त्रणस्याग्निलिङ्गत्वेऽपि कर्मतया प्रकृत उपवेष एव अभिमन्त्रणेनान्वयमर्हति, कर्मान्तरानुपादानात् । नच लिङ्गविरोध, तस्यैवा- भिप्रेरकस्य अग्निवदुपचारात् तथाचैतं मन्त्र उपवेषादान एव सत्याषाडो विक- स्पितवान् ।