110 (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने पश्चम पटल वानस्पत्योऽसि देवेभ्यश्शुन्धस्वेति प्रणीता- प्रणयनम् | चमसमद्भिः परिक्षालयति तृष्णीं कंसं मृन्मयं च । कंसेन प्रणयेब्रह्मवर्चसकामस्य मृन्म- येन प्रतिष्ठाकामस्य गोदोहनेन पशुकामस्य । अप- रेण गार्हपत्यं पवित्रान्तर्हितं चमसं निधाय तस्मिन् को वो गृह्णाति स वो गृह्णातु कस्मै वो गृढामि पोषाय व इत्यप आनयति ।। २ ।। १३ ।। १५६ ॥ [अधिकारिभेदे विशेषपक्षः] (भा) गुणकामानामप्रवृत्तिर्विकृतौ । न तूपदेश ॥ २ ॥ अपो गृह्णन् ग्रहीष्यंश्च पृथिवीं 'मनसा ध्यायति ।। ३ ।। १४ ।। १५७ ॥ (सू) [ खं १६, सू ३. 1 (वृ) नामन्यतरापाये अन्यस्यापि निवृत्ति सूचिता । यथाऽन्वारम्भणी- याविकृतौ न स्यादित्यत्र सारस्वतचतुर्होतॄणामपि निवृत्ति ॥ तूष्णीं कसं मृन्मयमिति तु प्रकृतावूहाभावात् । [अप्रवृत्त्युपपत्त्यादि] 3 गुणकामानामप्रवृत्तिर्विकृतौ इति – गुणकामानां विकृति- प्वाश्रयसद्भावनिबन्धनाक्षेपत प्राप्तिरपि नास्ति । गोदोहनादीना- माश्रयाभावात् । परमार्थतस्तु दर्शपूर्णमासावेवाश्रय इति मीमांसकोक्तेः तथाहि – गोदोहनादिसाध्यप्रणयनादिद्वारेणामेयादिप्रधानसहितस्यैव गोदो - हनादेः पश्वपूर्वसाघनत्वात् विकृतिष्वामेयाद्यभावेन तत्सबन्धिरूप प्रणयनाद्याश्रयाभावात् । नतूपदेश इति । द्रव्यस्यापि प्रणयनादिक्रिया- मात्रानुरक्तापूर्वविषयत्वेन विधानोपपत्तेः । गोदोहनादीनामपि ऋतूप- 1 प्रक्षालयति-क 2 मनसेति वचनान्नवाचाकीर्तयनि । ध्यानं चात्रपृथि- व्यापोप्रहीष्यामीति विशिष्ट प्रकारं केचिदिच्छन्ति नतदादृत्यम्, यत्र हि विशिष्टध्या- नमाचार्योमन्यते तत्र स्वय विशेष दर्शयति 'यददश्चन्द्रमसि कृष्णं तदिहास्तु ' इति मनसा ध्यायेत् इत्यादि । अत केवलध्यानविधिषु न कश्चिद्वेशेष (रु) ३ (जै. सू ३-६ - १०)
पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२४६
दिखावट