पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

X एवं बादरायणोऽपि—‘पारिप्लवाथं इति चेन्न विशेषितत्वात् इति सूत्रे पारिप्यवशब्देन (२० प्र ६ खे ७ सूत्रे) आपस्तम्बेन यानि दक्षिणेनाहवनीयं होता हिरण्यकशिपावुपविशति पारिप्लवं भौव न्यवं चाचिख्यासन्’ इत्यनेनानूदितानि , आश्वलायनेन च ,-- दक्षिणत आहवनीयस्य हिरण्यकशिपावासीनोऽभिषिक्ताय पुषा मात्यपरिवृतायग्राश्च परिप्लवमाचक्षीत’ इत्यादिना नवाहसमाप नीयानि यान्याख्यानशंसनानि विहितानि तान्येवानुवदतीति ततोऽs र्वाचीनमेव बादरायणीयं दर्शनमपि। गृह्यतात्पर्यदर्शनेऽपि – नानासाधनकाः नानाशाखास्थाङ्गकाः मीमांसान्यायसहस्र- निर्धार्यवचनव्यक्तिकाः मन्दबुद्धिभिरिदानीन्तनैर्दूर्शानाःअज्ञाने चानुष्ठातुमशक्ताः कथं चन प्रत्यवेयुरिति कृपाविष्टचेतस्कतया सूत्रकारेण ‘यशं व्याख्यास्याम ' इति परिभाषायामेकविंशतियशान् संक्षेपतो व्याख्याय तावन्मात्रेणानुपयोगात् ‘अथातो दर्शपूर्ण मास’ इत्यारभ्य श्रोता हविर्यज्ञसंस्थाः क्षामवत्यादयो नैमि सिकाः प्रसङ्गात्काम्याश्च विशेषतो व्याख्याताः इत्याह सुदर्शना । अत्र च सर्वविधमीमांसान्यायवृन्दमपि पूर्वपूर्वकल्पसूत्रप्रवर्तक- मुनिपरम्परया संक्षेपविस्तराभ्यां प्रवर्यमानं प्रचरतीत्यभिप्रायः । सति चैवं यज्ञशात्रव्याख्या तत्परिगृहीतवेदव्याख्या- निबन्धा इव मीमांसादर्शनमपि यज्ञशात्रव्याख्यारूपमेवेति सिद्ध भवति । इत्थं यथाशास्त्रव्याख्याभिरखिलाभिरैककण्ठ्येनैव वेदार्थेति च कर्तव्यता पूरणीयेति सिद्धम् । यज्ञशात्रव्याख्या तत्परिगृहीतवेदव्याख्या तथा विधमीमां सादर्शनरहस्य वेदिन एव यज्ञशात्रभूतकल्पसूअविवरणे प्रभवन्ति तथाभूता एव धूर्तस्वामि कपर्दिस्वामि रामाण्डारा आप ’ तस्बीयकल्पसूत्रनिबन्धे भाष्यकारवृत्तिकाराः यज्ञानुष्टानमार्ग संरक्षकविपुलनिबन्धप्रणेतारः प्रथन्तेतराम् ।