पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. आपस्तम्बधर्मसूत्रे [ (प.२.)क.६. यदा वाचार्यस्तिष्ठन् ब्रूते तदा तमनूत्थाय प्रतिब्रूयात् । उत्तरे द्वे सूत्रे स्पष्टार्थे ॥ ७॥ गच्छन्तमनुगच्छेत् ॥ ८॥ धावन्तमनुधावेत् ॥ ९ ॥ न सोपानवेष्टितशिरा अवहितपाणिर्वासीदेत् ॥ १० ॥ उत्तरत्रोपानत्प्रतिषेधान्न सोपान दित्यनुवादः अध्यापनस्त्विति प्रतिप्रसोतुम् । आचार्य न सोपानक आसीदेत् । नापि वेष्टितशिराः । अवहितपाणि. दानादिहस्तः एवंभूतोऽपि नालीदेत् ।। ८-१० ॥ अध्यापनस्तु कर्मयुक्तो वाऽऽसीदेत् ॥ ११ ॥ अध्वानं प्राप्तोऽत्रापन्नः कर्मणि दानादिसाध्ये प्रवृत्त कर्मयुक्त्तः एवं. भूतस्तु सोपानकोऽपयासीदेत् ॥ ११ ॥ न चेदुपसीदेत् ॥ १२॥ (१) न चेदाचार्यस्समीपे, उपसीदेत उपविशेत् । यदि तूपविशेदध्या- पन्नः कर्मयुक्तो वा तदोपानत्प्रभृतीनि विहायोपविशेत ॥ १२ ॥ देवमिवाचार्यमुपासीताऽविकथयन्नविमना वाचं शुश्रूषमाणोऽस्य ॥ १३ ॥ यो यं देवं भजते स तद्भावनया तमिवाऽऽचार्यमुपासीत । अविकथयन् (२)व्यर्थी कथामकुर्वन् । अविमनाः अविक्षिप्तमनाः । अस्याऽऽचार्यस्य वाचं शुश्रूषमाणः ॥ १३॥ अनुपस्थकृतः ॥ १४ ॥ (३)उपस्थकरणं प्रसिद्धम् । तस्कृत्वा नोपालीत ॥ १४ ॥ अनुवाति(४) बाते वीतः ॥ १५ ॥ वाते अनुवाति सति वातः विपर्ययेणेतः उपासीत । प्रतियातं तु वक्ष्यमा- णेन प्रतिषिध्यते । मनुरप्याह- (६) प्रतिवातेऽनुवाते च नासीत गुरुणा सहेति ॥ १५ ॥ १.न वेदाचार्यसमीपे उपसीदेत् उपविशेत् इति ख, पु. २. व्यर्थी कथा विकथा तामकुर्वन इति. ख. पु. ३. आकुञ्चितस्य सब्यजानुनउपरिदक्षिणं पाद प्रक्षिप्योपवेशनमुपस्थकरणम् । ४. 'बाते' इति नास्ति ख.पु. ५. मनु स्मृ. २. २०३.