पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मचारिनियमाः ] उज्वलोपेते प्रथम प्रश्नः । 6 अप्रतिष्टब्धः पाणिना ॥ १६ ॥ पाणिना प्रतिष्टब्धो न स्यात् पाणितलं भूमौ कृत्वा पाण्यवलम्बनो नाऽऽसीत ॥१६॥ अनपाश्रितोऽन्यत्र ॥ १७ ॥ अन्यत्र कुड्याद्यपाश्रितो न स्यात् । कुख्याधपाश्रितो नासीत ॥१७॥ यज्ञोपवीती विवस्त्र ॥१८॥ यदा द्विवस्त्रस्तदा वाससाऽन्यतरेण यज्ञोपवीती स्यात् । (१) "अपि वा सूत्रमेवोपवीतार्थ" इत्येष कल्पस्तदा न भवति ॥ १८ ॥ अधोनिवीतस्त्वेकवस्त्रः ॥ १९ ॥ यदा त्वेकवस्त्रो भवति तदा अधोनिवीतः स्यात् । न तस्य दीर्घस्याप्येक- देशेनोत्तरीयं कुर्यात ॥ १९ ॥ अभिमुखोऽनभिमुखम् ॥ २० ॥ स्वयमाचार्याभिमुखः आत्मानं प्रत्यनभिमुखमाचार्यमुपासीत । (२)स्व. यमाचार्यमपश्य आचार्यस्य पुरत आर्जवे नाऽऽसीत ॥ २० ॥ अनासन्नोऽनतिदूरे(३) च ॥ २१ ॥ अस्यासन्नो न स्यादतिदूरे च न स्यात् ॥ २१ ॥ यावदासीनो बाहुभ्यां प्राप्नुयात् ॥ २२ ॥ यावत्यन्तराले आसीन आचार्य बाहुभ्यां प्राप्तुं शक्नुयात् तावत्या- सीत ॥२२॥ अप्रतिघातम् ॥ २३ ॥ आचार्यस्य (४)प्रतिवाते नाऽऽसीत ॥ २३ ॥ एकाध्यायी दक्षिणं बाहुं प्रत्युपसीदेत् ॥ २४ ॥ यदा एक एवाऽधीते तदा आचार्यस्य दक्षिणं बाहुं प्रति दक्षिणे पार्श्व उपसीदत् उपविशेत् ॥ २४॥ यथावकाशं बहवः ॥ २५ ॥ १, आप ध २.४, २२. ३. चकारो नास्ति ख, पुस्तके २. स्वयमावार्यमेव पश्यन् इति. ख पु. ४. प्रतिवात इति ख. पु