पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे इ(प.२.क.५ ननु किमिदमुपसंग्रहणम् ? नदाह- दक्षिणेन पाणिना दक्षिणं पादमधस्तादभ्यधिभृश्य लकुष्ठिकमुपसंगृहीयाल ॥ २१ ॥ आत्मनो दक्षिणेन पाणिना आचार्यस्य दक्षिणं पादं अधस्तादभ्यधिमृश्य, अधिशब्द उपरिभावे, अधस्ताच्चोपरिष्टाच्चाभिमृश्य । सकुष्ठिक सगु. लफम् । साङ्गुष्ठमित्यन्ये ! उपसगृह्णीयात् । इदमुपलग्रहणम् । एतत्कुर्यात२१॥ उभाभ्यामेचोभावभिपाइयत उपसंग्राह्यावित्येके ॥२२॥ उभाभ्यां पाणि उभावेघाऽऽचार्यस्थ पादौ अभिपीडयतो माणधकस्य उपसप्राथावित्येके मन्यन्ते । अभिपीडयत इति । (१)कृत्यानां कर्तरि"इति कतरि षष्ठी । अत्र मनुः (२) व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः । सव्येन सव्या स्प्रष्टव्यो दक्षिणेन च दक्षिणः ॥ इति ॥ २२ ॥ सर्वाहणं सुयुक्तोऽध्ययनादनन्तरोऽध्याये ॥ २३ ॥ सर्व च तदहश्च सालम् । (३) राजाहस्सखिभ्यष्टच्।' (४) अहोऽह एतेभ्य' इत्यहादेशः । (4) अह्नादन्तादिति णत्वम् । अत्यन्तसयोगे द्वितीया सर्वात सदा सुयुक्तः सुसमाहितः अनन्यचित्तः । अध्ययनादनन्तरः नान्तरयतीत्यनन्तरः। अध्ययनाद्यथा आत्माननान्तरयति यथा अ ध्ययनान्न विच्छिद्येत तथा स्यात् । अध्याये स्वाध्यायकाले। अध्याय इत्यनुवादः । (६) मनसा चानध्याय' इति विशेषविधानात् । 'अध्याये' दिति प्रायेण पठन्ति । तत्र तकारोऽपपाठश्छान्दसो वा ॥ २३ ॥ तथा गुरुकर्मसु ॥ २४॥ गुरुकर्मसु च तथा स्यात् सुयुक्तोऽनन्तरश्च स्यात् ॥ २४ ॥ १. पा. सू. २. ३. ७१ २. म. स्मृ. २, ७२. ३. पा० सू० ५.४ ९१. राजन् शब्दान्तादहनशब्दान्तात् सखिशब्दान्ताच्च तत्पुरुषात् टच् स्यात् इति सूत्रार्थः ॥ ४. सर्वै, कदेश, सख्यात, पुण्यशब्देभ्यः परस्याहनशब्दस्याङ्क इत्यादेशस्स्यात् समासान्ते परे इति सूत्रार्थ । ५, ९ ४ ७. मदन्तपूर्वपदस्थाद्रेफात परस्याहादेशस्य नस्य णस्स्यात् इति सूत्रार्थः । ६.आप.ध.१.५.२६०