पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पादोपसङ्ग्रहणम् ] उज्वलापते प्रथमः प्रश्नः । (१)प्रत्यभिवादेऽशूद्र' इति पाणिनीयस्मृतिः। तत्र (२) वाक्यस्य टे' रि. त्यनुवृत्तेः प्रत्यभिवादवाक्यस्यान्ते नामप्रयोगः तस्य देः प्लुतः । 'आयु मान् भर सौम्या३ इति प्रयोक्तव्यः । स्मृत्यन्तरवशानाम्नश्च पश्चाद. कारः। तथा च मनु:- (३)आयुष्मान् भव सौम्येति वाच्यो विनोऽभिवादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥” इति । 'आयुष्मान् भव सौम्य देवदत्त ३ अ' इति प्रयोगः । शम्भुर्विष्णुः पिनाकपाणिश्चक्रपाणिरित्यादीनां नाम्नां सम्बुद्धौ गुणे कृते 'एचोs. गृह्यस्यादूराद्धृते पूर्वस्यार्धस्याहुत्तरस्यदुतौ' इत्ययं विधिर्भवति । अन्ते अकारः । (४) 'तयोधिचि सहितायाम्' इति यकारवकारौ च भव. ता-शम्मा ३ व, विष्णा३व, पिनाकपाणा ३ य, चक्रपाणा ३ य, इति । अत्र सूने 'प्रत्यभिवादने चेति चकारस्यार्थ न पश्यामः । अपर आह-'अभिवादने प्रत्यभिवादने च प्लायन मिति । अस्मि- अपि पक्ष द्वन्द्वेनाभिहितत्वाशशब्दोऽनर्थक एव । अभिवादने च शास्त्रान्तरे न वापि प्लुनो विहितः । तस्मादनर्थक एव चकारः। अनर्थकाश्च निपाता बहुलं प्रयुज्यन्ते ॥ १७ ॥ उदिते स्वादित्य आचार्येण सभेत्योपसंग्रहणम् ॥१८॥ उदिते त्वादित्ये आचार्येण अध्ययनार्थ समेत्य वक्ष्यमाणेन विधिनोपसंग्रहण कुर्यात ॥ १८ ॥ सदैवाऽभिवादनम् ॥ १९ ॥ अन्यदा सर्वदा पूर्वोकप्रकारेणाभिवादनमेव । अयमनुवाद उत्तरः विवक्षया ॥ १९ ॥ उपसंग्राह्य आचार्य इत्येके ॥३०॥ अभिवादनप्रसङ्गे सदैव उपसग्राह्य आचार्य इत्येके मन्यन्ते ॥ २० ॥ - १ पासू ८. २. ८३ शुद्रभिन्नविषये प्रत्यभिवादे यद्वाक्य 'आयुष्मान् भव सौ. भ्य" इत्यादिरूप तस्य टेः प्लुनस्स्यात् , स चोदात्त इति सूत्रार्थः । २. पा.सू ८.२ ८२ ३. मनु. स्मृ२ १२५. ४. पा. सू ८ २. १०८. इदुतोर्यकारवकारौ स्तोऽचि संहितायाम् इति सूत्रार्थः । आप० ध०५