पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उज्ज्वलोपेते द्वितीयः प्रश्नः । समाम्नानं प्रतिपदपाठः । तेन धर्मसमाप्ति कृच्छ्रा न शक्या कर्तुम् । किं तु लक्षणकर्मणा समाप्यते येन सामान्येन भिन्नानामप्यधिगमो भवति तल्लक्षणं, तस्य कर्मणा करणेन समाप्यते । कर्मणास्विति द्वित. कारपाठोऽयमार्षः । आदिति वा निपातस्य प्रश्लेषः। स च सद्य इत्यस्यार्थे द्रष्टव्यः ॥ १३ ॥ तन्त्र लक्षणम् ॥ १४॥ सर्वजनपदेष्वेकान्तसमाहितमार्याणां वृत्तं सम्ध. ग्विनीतानां वृद्धानामात्मवतामलालुपानामदा- म्भिकानां वृत्तसादृश्यं भजेत एवमुभौ लोकावमिजयति ॥ १५ ॥ पूर्षण गतम् ॥ १५ ॥ स्त्रीभ्यस्तविणेभ्यश्च धर्मशेषाप्रतीपा. दिस्येक इत्येके ॥ १६ ॥ उक्तव्यतिरिक्ता ये धर्मास्ते धर्मशेषास्तान स्मादीनामपि सकाशात प्रतायादित्येके मन्यन्ते । ते च प्रतिजनपदं प्रतिकुलं च भिनास्तथैव प्रति- पत्तव्याः । तत्र द्राविडाः कन्यामेषस्थे सवितादित्यपूजामाचरन्ति भूमौ मण्डलमालिख्य, इत्यादीन्युदाहरणानि ! विरुकिरध्यायपरिस. माप्त्यर्था ॥ १६ ॥ इत्यापस्तम्बधर्मसुत्रवृत्तौ द्वितीयप्रश्ने एकोनविंशी कण्डिका ॥ २९ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ श्रीहरदत्तमिश्रविरचितायामुज्ज्वलायां द्वितीयप्रइने एकादशः पटलः ॥ ११ ॥ समाप्तो द्वितीयः प्रश्नः॥ ARRIO- समासमिदमुज्वलोज्वलितमापस्तम्बधर्मसूत्रम् ॥