पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्र [(प.११)क.२९. इत्यादिना प्रकारे समाख्याप्य प्राविधाकादिभिः पृष्ट इति शे. वः । सर्वानुमते अर्थिप्रत्यर्थिनोस्सन्यानां चाऽनुमतौ सत्यां सभ्यो मुख्यः साक्षिगुणैरुपेतो दोषैश्च वर्जितसाक्षी प्रश्नं पृष्टमर्थ सत्यं थ- थाssस्मना जातं तथा ब्रूयात् ॥ ७॥ अन्ते राजा दण्डं प्रणयेत् ॥ ८॥ साक्षिणाऽनृतमुक्तमिति प्रतिपन्ने राजा(१) दण्डं प्रणगेत् । अत्र मनु:- (२)यस्य दृश्येत सप्ताहा(३)दुक्तलाक्ष्यस्य साक्षिणः । रोगोऽग्निीतिमरण (४)दाप्यो दण्ड च तत्समम् ॥ इति ॥ ८॥ न केवलमसत्यवचने राजदण्डः किं तर्हि ? नरकयात्राधिक: साम्पराये ॥१॥ साम्पराय: परलोका, तत्र नरकश्च भवति, न तु, (५) राजभिधूतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलास्स्वर्गमायान्ति सन्तस्सुकृतिनो यथा ॥ इत्यस्यायं विषय इति ॥९॥ सत्ये स्वर्गस्सर्वभूतप्रशंसा च ॥ १० ॥ सत्य उक्त स्वर्गो भवति । सर्वाणि च भूतान्येन प्रशसन्ति अपि देवा ॥१०॥ सा निष्ठा या विद्या स्त्रीषु शुद्रेषु च ॥ ११ ॥ स्त्रीषु देव च या विद्या सा निष्ठा समाप्तिस्तस्यामप्यधिगतायां विद्या- कर्म परिसिष्ठतीति ॥ ११ ॥ आर्वणस्य वेदस्य शेष इत्युपदिशान्ति ॥ १२ ॥ अथर्वणा प्रोक्तमधीयते ये ते आथर्वशिकाः । वसन्तादिभ्यष्टक् । तेषां समाम्नायः । “आथर्वणिकस्यकलोपश्च" आथर्वणः । वेदस्य शेष इत्युपदिशन्ति धर्मज्ञाः-या विद्या स्त्रीषु शूद्वेषु चेति ॥ १२ ॥ कृच्छा धर्मसमाप्तिस्समाम्नानेन लक्षणकर्मणा तु समाप्यते ॥ १३ ॥ तस्य २.म. स्मृ.८.१०८, १.तं दण्डयेत् इति क. पु. ३ उक्तवाक्यस्य इति च पु. ४. ऋण दाप्यो दम च सः इति. च. पु. मुद्रितपुस्तकेषु च। ५. म, स्मृ ८. ३१८,