पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.१०)क.२६. शुद्रश्च पादावनेता॥ १५ ॥ यस्वर्णिकानां पादावचेता स शूद्रोऽयकरः ॥ १५ ॥ अन्धमूकबधिररोगाविष्टाश्च ॥ १६ ॥ यतेऽयकरा:यावदान्यादि ॥ १६ ॥ ये व्यर्थी द्रव्यपरिग्रहः ॥ १७ ॥ ये च परिव्राजकादयः द्रव्यपरिप्रहैया निष्प्रयोजनाः शास्त्रतो येषां द्रव्यपरिग्रहः प्रतिषितः तेऽध्यकरः। तथा च वसिष्ठ:--- (१) अकरः श्रोत्रियो राजा पुमाननाथः प्रवजितो बालवृद्धतरुणप्र. शान्ता" इति ॥१७॥ अवुद्भिपूर्वमलस्कृतो युवा परदारमनुप्रविशन् कुमारी वा वाचा बाध्यः ॥ १८ ॥ यत्र परदारा आसते कुमारी वा पतिवरा, तत्र युवा अलङ्कृतः अ. बुद्धिपूर्वमशानादनप्रविशन् वाचा बाध्या-अत्रेयमास्ते,मान प्रविशति ॥१॥ बुद्धिपूर्व तु दुष्टभावो दण्डयः ॥ १९ ॥ यस्तु जाननेव दुष्टभावः प्रलोभनार्थी प्रविशति स दण्ड्यो ब्यानु. रूपमपराधानुरूपं च । दुष्टभावग्रहणमाचार्यादिनषितस्य प्रवेशे दण्डो मा भूदिति ॥ १९॥ सन्निपाते वृत्ते शिश्नच्छेदनं सवृषणस्य ॥ २०॥ सन्निपातो मैथुनं, तस्मिन् वृत्ते शिश्नच्छेदन दण्डः । सवृषणस्येत्युपसर्ज- नस्यापि शिश्नस्य विशेषणम् । सवृषणस्य शिनस्य च्छेदनामिति ॥२०॥ कुमार्या तु स्वान्यादाय नाश्यः ॥ २१ ॥ कुमायाँ तु सनिपात वृत्चे सर्वस्वहरणं कृत्वा देशानिर्वास्या, न शिश्नच्छेदः ॥ २१ ॥ अथ भृत्ये राज्ञा ॥ २२ ॥ अथ सनिपानाप्रभृति ते परदारकुमारों राशा भृत्ये ग्रासाच्छा- दनप्रदानेन भर्तव्ये ॥ २१ ॥ १.च.. १९.१३०