पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ आपस्तम्बधर्मसूत्रे [(प.१०.)क.२६. भृत्यानामनुपरोधेन क्षेत्र वित्तं च ददद्राह्मणेभ्यो यथार्हमनन्ताँल्लोकानभिजयति ॥ १ ॥ भृत्यानामनुपरोधेन मृत्यवर्गस्य यथोपरोधो न भवति तथा ब्राह्मणेभ्यो यथाह विद्यावृत्तानुरूप क्षेत्रं वित्त व दद्यात् । एवं दददनन्ताल्लोकानभिजयति॥१॥ ब्रामणस्वान्धपजिगीषमाणो राजा यो हन्यते तमाहुरा. स्मथूपो यज्ञोऽनन्त दक्षिण इति ॥ २ ॥ ब्राह्मणस्वानि चोरादिभिरपहृतानि अपजिगीषमाणः ब्राह्मणेभ्यो दानाया. पजित्य ग्रहीतुमिच्छन् यो राजा युद्धे चोरे«न्यते तमात्मयूपोऽनन्तदक्षिणो यज्ञ इत्याहुर्धर्मशाः । सङ्ग्रामो यज्ञः । तस्य आत्मा यूपस्थानीयः । आत्मेति शरीरमाह । अन्तरात्मा तु पशुस्थानीयः । प्रत्यानिनीषितं तु द्रव्यं दक्षिणा ! सूत्रे तु तं यज्ञ इत्याहुरिति गौणो वादः ॥२॥ एतेनाऽन्ये शूरा व्याख्याता प्रयोजने युध्य. मानास्तनुत्यजः ॥३॥ प्रयोजनं चोरादिभिरपहतानां ब्राह्मणखाना प्रत्यायनादि, तदर्थ युध्यमाना ये शूरास्तनुत्यजो भवन्ति तेऽप्येतेन राना व्याख्याता आत्मयूषा यज्ञा अनन्तदक्षिणा इति ॥ ३ ॥ ग्रामेषु नगरेषु चाऽऽर्याञ्छुचीन सत्यशालान् प्रजागुप्तये नियात् ॥ ४॥ आर्याच्छुचीन सत्यशीलानिति ब्याख्यातम् । एवंभूतान् पुरुषान् प्रामेषु नगरेषु च प्रजानां रक्षणार्थ निध्यात् नियुति ॥ ४॥ तेषां पुरुषास्तथागुणा एवं स्युः॥५॥ तेषां नियुक्तानां ये पुरुषा नियोज्या तेऽपि तथागुशा आर्यादिगुणा एव सर्वतो घोजनं नगरं तस्करेभ्यो रक्ष्यम् ॥ ६॥ सर्वतः सर्वासु विक्षु योजनमानं नगरं तस्करेभ्यो रक्षणीयम् । रक्ष्यनि- त्यपपाठ:॥६॥ कोशो मामेभ्यः ॥७॥