पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजधर्माः] उज्ज्वलोऐते द्वितीयः प्रश्नः । सभाया मध्येऽधिदेवनमुद्धत्याऽवोक्ष्याऽक्षानिवपेशुरमान् वैभीनकान् यथार्थान् ॥ १२ ॥ पूर्वोक्तायाः सभाया मध्ये अधिदेवन यस्योपरि कितवा अझै व्यन्ति तत्स्थानमधिदेवनम् । तव पूर्व काष्टादिना उद्धान्ति उद्धत्याऽवोशति ! अबो- श्य तत्राऽक्षान् युग्मसङ्ख्याकान्वैभीतकान् विभीतकवृक्षस्य विकारभूतान यथार्थान् यावद्भिर्दूतं निर्वर्तते, तावतो निवपति । कः ? यस्तथ राक्षा नियुक्तः सभिको नाम ।। १२ ।। आर्याः शुचयस्सत्यशीला दीवितारस्युः ॥ १३ ॥ आर्याः द्विजातयः । (१)शुचयोऽर्थशुद्धाः । सत्यशीलास्सत्यवादिनः । एवंभूता एव पुरुषास्तत्र दीवितारः देवितारः स्युः । त एव तत्र दीये. युरित्यर्थः । तेच तत्र देवित्वा यथाभाषितं पण सभिकाय इत्वा गच्छेयुः । स च राशे तमायमहरहः प्रतिमासं प्रतिसंवत्सरं वा दद्यात् । स एव च स्थानान्तरे दाव्यतो दण्डये, सभास्थाने च कलहकारान् । तत्र याज्ञवल्क्य:- (२)पलहे शत्तिकवृद्धस्तु समिकः पञ्चकं शतम् । गृतीयाद्भूर्तकितवादितराइशकं शतम् ॥ स सस्यपालितो दद्यादाशे भाग यथावतम् । जितमुद्राहयेज्जैनं दद्यात्सत्यं वचः क्षमी ।" इति ॥ १३ ॥ आयुधग्रहणं मृत्तगीतवादित्राणीति राजाधीने. भ्योऽन्यत्र न विधेरन् ।॥ १४ ॥ आयुधग्रहणादीनि राजाधीनेभ्यो राजाश्रया ये पुरुषास्तेभ्योऽन्यत्र न विशेरन् न भवेयुः । उत्सवादिध्वन्यत्रापि भवतीत्याचारः ॥ १४ ॥ क्षेमकृद्राजा यस्य विषये ग्रामेऽरण्ये वा तस्करभयं न विद्यते ॥ १५ ॥ यस्य राज्ञो विषये प्रामेऽरण्ये च चोरभयं नास्ति स पच राजा क्षम कृत् क्षेमकरः । न त्वन्यः शत तुभ्यं शतं तुभ्यमिति ददानोऽपि ॥१५॥ इत्यापस्तम्बधर्मसूत्रवृत्ती द्वितीयप्रश्ने पञ्चविंशी कण्डिका ॥ २५ ॥ १. शुचयो धर्मशुद्धाः इति च. पु. २. या. स्मृ. २. १९९) २००