पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वानप्रस्थधर्माः] उज्ज्वलोपेते द्वितीयः प्रश्नः । अथ प्रामाहिररण्ये गृहान् कृत्वा सकुटुम्बस्सहैव चाग्निभिप्रामावहिर्वसेत् । अस्मिन्पक्षे प्रागुक्तमेकाग्निरियेतनाऽस्ति ॥ ८ एको वा ॥९॥ अथवा पुत्रेषु भार्या निक्षिप्य स्वयमेश पत्र बसेत् । अस्मिन् पर्छ 'प्राजापत्य निरुपयेष्टि मिति परिवाज उक्न न्यायेन श्रीताननीनात्मनि समारोप्य श्रामणकेनाऽग्निमाधाय एकानिर्भवेत् ॥ ९ ॥ सिलोज्छन वर्तयत् ॥ १० ॥ व्याख्यातः सिलोज्छ । तेन वर्तयेत् प्राणयात्रां कुर्यात् । इदं सकु. टुम्बस्य एकाकिनश्च साधारणम् । एकाकिन एअत्यन्ये ॥ १०॥ न चाऽत्त अर्व प्रतिगृह्णीयात् ॥ ११ ॥ यदा सिलोछेन वृत्तिर्जाता अरु अई न कुतश्चिदपि प्रतिगृह्णीयात् । ११॥ अभिषिक्तश्च जुहुयात् ॥ १२ ॥ यदा जुहुयात्तदा अभिपित्तः स्नातः । अनुवादोऽयं स्नाने विशेष विधातुम् ॥ १२ ॥ शनैरपोऽभ्युपेवादभिन्नन्नभिमुग्व आदित्यः दकमुपस्पृशेत् ।। १३ ॥ शनैरथेगेन जलाशयं प्रविशेत् । प्रविश्व चाऽभिन्नन् हस्तेनोदक ताड- यन् उदकमुपस्पृशेत् स्नायात् आदित्याभिमुखः ॥ १३ ॥ (१)इति सर्वत्रोदकोपस्पर्शनविधिः ॥ १४ ॥ सर्ववर्णाश्रमसाधारणमेतत् । तथाचोत्तरन तस्य ग्रहणम् ॥ १४ ॥ तस्य इन्द्व्याणामेक उपदिशन्ति पाका भोजनार्थ वासिपरशुदात्रकाजानाम् ॥ १५ ॥ यानि पाकार्थानि ताम्रभाण्डादीनि । यानि च भोजनार्धानि का. स्यादीनि । वासिदादि । तेषां सर्वेषां वास्यादीनां चतुर्णा(२)मेकैकस्य द्वे द्वे द्रव्ये उत्पाद्ये इत्येक उपदिशन्ति । काजमपि वास्यादिवदुपकर. णविशेषो दारुमयः ॥१५॥ बन्दानामेकैकमादायेतराणि दत्वाऽरण्यमवतिष्ठेत ॥१६॥ १. 'इति विविः' इत्येव सूत्रम् च्छ. पृ. २. एकैकस्यां विधायां इति च पु.