पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.९)क.२२. तेषां पानादिसाधनानां द्रव्याणामेकेंक द्रव्य स्वयमादायतराणि भार्याथै दत्वा अरण्यमवतिष्ठेत उपतिष्ठत् आश्रयेदिति ॥ १६ ॥ तस्याऽऽरण्येनैवाऽत ऊध्र्व होमो वृत्तिः प्रतीक्षाच्छादनं च ॥ तस्य वानप्रस्थस्याऽतोऽरण्यप्रवेशादूर्व आरण्येनैव जीवारादिना होमः वृत्तिः प्राणयात्रा प्रतीक्षा अतिथिपूजा च आच्छादनं बल्कलादिना ॥ १७ ॥ येषु कर्मसु पुरोडाशाश्चरवस्तेषु कार्याः ॥१८॥ येषु दर्शपूर्णमालादिषु पुरोडाशा विहिताः गृहस्थस्य, तेवस्थ तत्स्थाने ()चरव, कार्याः ॥ १८ ॥ सर्व चोपांशु सह स्वाध्यायेन ॥ १९ ॥ सर्व च कर्मकाण्ड साझं प्रधानमुपांशु भवति पारायणब्रह्मयशाध्य. धनेन सह । तदप्युपांशु कर्तव्यमिति ॥ १९ ॥ नाऽऽरण्यमभ्याश्रावयेत् ॥ २० ॥ उपांशुवचनादव सिद्ध वचनमाभिमुख्यप्रतिषेधार्थम् । सेनाऽरण्य. स्था यथा नाऽऽभिमुख्येन शृणुयुः तावदुपांशिवति ॥ २० ॥ अग्न्यथै शरणम् ॥ २१ ॥ शरणं गृहं तदग्न्यर्थमेव ॥ २१ ॥ आकाशे खयम् ॥ २२ ॥ स्वग चाऽऽकाश एव वसेत् ॥ २२॥ अनुपस्तीर्ण शम्यासने ॥ २३ ॥ शयनं चाऽऽसन चाऽनुयस्तीर्ण देश कुर्यात् न तु किश्चिदुपस्तीर्य ॥२३॥ नचे सस्पे प्रासे पुराणमनुजानीयात् ॥ २४ ।। नवे धान्ये श्यामाकनीवारादौ प्राहे जाते पुराणं पूर्वसञ्चितं सस्यमनु. जानीयात परित्यजेत् । तत्र मनु:- (२) त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसञ्चितम् । जीर्णानि चैव वालासि पुष्पमूलफलानि च ॥' इति ॥ २४ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने द्वाविंशी कण्डिका ॥ २२ ॥ १. अनवनावितान्तरूप्मपकलण्डुलप्रकृतिकश्वरः । २. म.स्.६.२५.