पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपातम्वधर्मसूत्र [ (प.९.)क.२१. कथं प्रव्रजेदिति । तस्मात्सत्यपि बैराग्ये कास्यस्य कर्मणः परित्यागेन नित्यानि नैमित्तिकानि च कर्माणि कुर्वन् प्रतिषिद्धानि वर्जयन् गृहस्थ एक मुच्यत इति । तथाऽऽह याज्ञवल्क्य:- (१) न्यायार्जिलधनस्तत्त्वज्ञरमनिष्टोऽतिथिप्रियः । श्राद्धकृलत्यवादी च गृहस्थोऽपि विमुच्यते॥' इति । अथ योऽनाहिताशिस्तभ्य विरक्तस्य मुन्याश्रमप्रवेशे को विरोधः ? ऋणश्रुतिविरोधः--(२)जायमानो वै ब्राह्मणस्त्रिभिणया जायते ब्र- ह्मचर्येणर्षिभ्यो यचेन देवेभ्यः प्रजा पितृभ्य' इति । मनुरपि--- (३) ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अपनाइव मोक्षं तु सेवमानो बजत्यधः॥ इति । मोक्षो मोक्षाश्रमः। नन्वेवं ब्रह्मचर्यादपि प्रवज्या नोपपद्यते । अथ तत्र(४) 'वदहरेव विरजेदिति श्रुत्या युक्तं प्रबजितुं तदा विरक्तस्थ, (५)गार्हस्थ्यादपि भविष्यति । स्मर्यते च-- (६) प्राजापत्या निरुप्योष्टि सर्ववेदसदक्षिणाम् । आत्मस्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेत् गृहादिति ॥ तथा यो गृहस्थो वृद्धो मृतमार्यः पुनारक्रियायामसमर्थः, तस्यापि युज्यते प्रवज्या। तस्माद्यदहरेव बिरजे दि(७)त्येष एव कालः प्रव्रज्याया, सर्वमन्यविरक्तस्येति युक्तम् । एवकारस्तु सूत्रे श्रुत्यनुसारेण प्रयुक्तः । यथा 'गृहाद्वा वनाद्वेति ब्रुवाणैव श्रुतिब्रह्मचर्यादेव प्रबजेदित्याह, तथेति ॥८॥ तस्योपदिशान्ति ॥ ९ ॥ तस्य परिवाजा कर्तव्यमुपदिशन्ति धर्मज्ञाः ॥९॥ अनग्निरनिकेतस्हयादशोऽशरणो मुनिःस्वाध्याय एको. स्मृजमानो वाचं ग्रामे प्राणवृत्ति प्रतिलभ्यानि- होऽनमुनश्चरेत् ॥ १० ॥ ब्रह्मचारिणस्समिदाधानाद्यग्निकार्य गृहस्थस्योपासनाद्याग्निहोत्रादि वानप्रस्थस्य(८) 'श्रामणकेनाग्निमाधायेति विहितेऽनौ होमादि । तस्य ४. जाबालो. ४. ५. गृहस्थस्यापि इति च. पु. ७. एक एवांश' इति ड, पु. गौ. ध. ३. १७. ६.म. स्मृ.६.३०. ८.