पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.७)क.१७. सभ्यायलयामा सह (१) पचानां काटकानीनामध्येता का ज्येष्ठ साम तलवकारिणां प्रसिद्ध उदु त्य, चित्रमित्येतयोर्गीतम् । तद्वायतीति ज्येष्ठ. समागः । ज्येष्ठलामिक इति शाठे ब्रीह्यादित्वात् उनू ! वेदाध्यायी स्वाध्या. यपरः । अनूचानपुत्र विद्यपुत्र । श्रोत्रिय इत्यपि पठन्ति । तदादरार्थ द्रष्टव्यम् । एते श्राद्धे भुञ्जानाः पड्रिं शोधयन्ति । वेदाध्यायीत्यस्याऽनन्तर मितिशब्दं पठन्ति । सोऽपपाठः । एतेन पञ्चानीत्यविभक्तिकपाठो व्याख्यातः॥२२॥ न च नक्तं श्राद्धं कुर्वीत ॥ २३ ॥ श्राद्धकर्मण्यारब्धे कारणाद्विलम्बे मध्ये यदादित्योऽस्लमियात् तदा श्राद्धशेषं न कुर्वीत, अपरेझुर्दिवैच कुालेति ॥ २३ ॥ आरब्धे चाऽभोजनमासमापनात् (अन्यत्र राहुदर्शनात) ॥ २४ ॥ पूर्वेधुनिवेदनप्रभृत्यापिण्डनिधानान्मध्ये कर्तु जनप्रतिषेधः । अ. नन्तरमन्यत्र राहुदर्शनादिति पठन्ति । न च नक्त'मित्यस्यापवादः राहु- दर्शने नकमपि कुर्वीतेति । उदीच्यास्त्वेतमायेण न पठन्ति । तथा च पुर्न व्याख्यातम् । प्रत्युत 'न च नक्त'मित्येतत् सोमग्रहणविषयमिति व्याख्यातम् । पठ्यमानं तु न च नक्तमित्यस्यानन्तरं पठितुं युक्तम् ॥२४॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रइने सप्तदशी कण्डिका ॥ १७ ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु. ज्ज्वलायां द्वितीयप्रश्ने सप्तमः पटलः ॥७॥ १. सावित्र, नाचिकेत, चातुर्होत्र, वैश्वसृजा, रुणकेतुकाख्या' पञ्च चयनविशेषाः तैत्तिरीयब्राह्मणे ३ याष्टके दशमादिषु त्रिषु (काठके. १. २. ३) प्रपाठकेषु आम्नाता' पञ्चाग्नयः । छान्दोग्योपनिषद्याम्नातपञ्चाग्निविद्या- ध्यायी पञ्चाग्निरिति मनौ (३. १८५) मेधातिथिः ।