पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्र [(प.१)क.१. गर्भवादशेषु वैश्यम् ॥ १९ ॥ (१)वसन्ते ब्राह्मणमित्यादि गुह्ये गतम् ॥ १९ ॥ • अथ काम्पानि १० ॥ कामनिमित्तान्युपनयनानि वक्ष्यन्ते ॥ २० ॥ (२)ससमे ब्रह्मवर्चसकामम् ॥ २१ ॥ अष्टम आयुष्कामम् ॥ २२॥ नवमे तेजस्कासम् ॥ २३ ।। दशोऽनायकामम् ॥ २४ ॥ एकादश इन्द्रिय कामम् ॥ २५ ॥ द्वादशे पशुकामम् ॥ २६ ॥ 'ब्रह्मवर्चसकाम'मित्यादीनि षट् सूत्राणि स्पष्टार्थानि । सर्वोपन- योतत्यपेक्ष्यते ॥ २१-२६ । (३) आचार्याधीनस्स्था' दित्यादीनि यानि ब्रह्मचारिणो तानि व क्ष्यन्ते तवसमर्थानां कुमाराणां वर्णक्रमेणानुकल्पमाह- आषोडशाबाह्मणस्यानात्यय आद्वाविंशारक्षत्रि. यस्थाऽऽचतुर्विशाद्वैश्यस्य यथा व्रतेषु समर्थः स्थाद्यानि वक्ष्यामः॥ २७ ॥ आकारोऽभिविधौ । अत्ययोऽतिक्रमः । स एवाऽऽत्ययः तदभावोऽनात्यय । यादृच्छिको दीर्घ', आङो वा प्रश्लेशः । प्रकरणादुपनयनकालस्येति गम्यते । यथा तेषु समर्थ स्यात, तथैतावान् कालः प्रतीक्ष्यः । पूर्वमेव तु सामर्षे सत्यष्टमवीद्यतिक्रमे वक्ष्यमाण प्रायश्चित्तमेव भवति । एव षोडशादिस्य ऊर्च कियन्तञ्चित्कालमसमर्थानां पश्चासामथ सति प्रायश्चित भवत्येव ॥२७॥ तदानी प्रायश्चित्तमाह-- अतिक्रान्ते सावित्र्याः ऋतुं त्रैविद्यर्क ब्रह्मचर्य चरेत् ॥ २८ ॥ १ आप. गृ ११.२ २ इतः प्रभृति सूत्रषट्कमकसूत्रतया लिखित क. पुस्तके । ३ आप, ध १२ १९.