पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उज्वलोपेते प्रथमः प्रश्नः । मार्टि। मनुस्तु- (१)पतितं पतितेत्युक्त्वा चोर चोरेति वा पुनः । वचनातुल्यदोषस्थान्मिथ्या द्विदोषभाग्भवेत् ।। इति द्वैगुण्यमाहं । तदभ्याले द्रष्टव्यम् । स्तेनः प्रकणिकेश' (२५ ४.) इति वक्ष्यति । स एव तृतीयस्य पादस्याऽर्थः । कर्तृभेदादपौनरुक्त्यम् । सङ्करः प्रतिज्ञा प्रतिश्रवः । सत्य सङ्गर इति यथा । य.प्रतिश्रुत्या न ददाति लोऽनृतसकर इति । ककारस्तु छान्दसः । तस्मिन् याचकः स्वयमेनो माटि ! तस्मात्प्रतिश्रुतं देयमिति ॥ १५ ॥ ॥ इत्यापस्तम्बसूत्रवृत्ताचेकोनविंशी कण्डिका ॥ १९ ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु. ज्ज्वलायां प्रथमप्रश्ने षष्ठः पटलः ॥ ६॥ १ म. स्मृ. श्लोकोऽयमिदीनां मुद्रितकोशेषु नोपलभ्यते ।