सा चैवास्मि तथापि चौर्यसुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥'
इत्यत्र विभावनाविशेषोत्तयोः संदेहसंकरः । तथा ह्युत्कण्ठाकारणं
विरुद्धं यः कौमारहर इत्यादि निबद्धमिति विभावना। तथा यः कौमार-
हर इत्यादेः कारणस्य कार्यं विरुद्धं चेतः समुत्कण्ठत इत्युत्कण्ठाख्यं
निबद्धमिति विशेषोक्तिः । विरुद्धमुखेनोपनिबन्धात्केवलमस्पष्टत्वम् । सा-
धकबाधकप्रमाणाभावाच्चात्र संदेहसंकरः ।
या तु एकगुणहानिकल्पनायां साम्यदार्ढ्यं विशेषोक्तिः ' इति विशेषो-
क्तिर्लक्षिता सास्मिन्दर्शने रूपकभेद एवेति पृथङ्क वाच्या ।
अतिशयोक्तौ लक्षितायामपि कश्चित्प्रभेदः कार्यकारणभावप्रस्तावेने-
होच्यते
कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चातिशयोक्तिः।
इह नियतपूर्वकालभाविकारणं नियतपश्चात्कालभावि कार्यमिति कार्य- कारणयोर्लक्षणं प्रसिद्धम् । यदा तु विशेषप्रतिपादनाय तयोरेतद्रूपापगमः क्रियते तदातिशयोक्तिः । एतद्रूपापगमश्च कालसाम्यनिबन्धनः कालवि-
रूपस्याभाव इति विशेषोक्तिः । अस्पष्टत्वमिति । कार्यकारणयोः साक्षान्निषेध्यस्वेना- प्रतीतेः । ननु चात्रानयोः किमिति संदेह एकपक्षाश्रय एव क्रियतामित्याशङ्कयाह- साधकेत्यादि । ननु ‘द्युतं हि नाम पुरुषस्यासिंहासनं राज्यम्' इत्यादौ वामनेन या विशेषोक्तिरुक्ता सा कि नोच्यत इत्याशङ्कयाह--या त्विस्यादि । एवमनयैव दृशा ए- कगुणहान्युपचयादिकल्पनायां साम्यदार्ढ्यं विशेष इति लक्षितो विशेषालंकारोऽप्यस्मिन्द- र्शने रूपकभेद एवेति न पृथग्वाच्यः । प्रस्तावेनानुगुण्येन । अत एवेयन्तः कार्यकारण- भावाश्रया विच्छित्तिविशेषाः संभवन्तीति प्रपञ्चमात्रं दर्शयितुं पुनरिहास्या वचनम् । एतच्च ग्रन्थकृतैवोक्तम् । प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारण- ताश्रयालंकारप्रस्तावे प्रपञ्चार्थं लक्षयिष्यत इत्युच्यत इति न पुनर्निर्णायते। । पूर्वत्रैवास्य निर्णीतत्वात् । तामेवाह--कार्यकारणयोरित्यादि । उभयत्रापि नियतशब्द एतदव्य-
१. ‘यस्तु’ स्व.
१. 'पुनरिहास्य’ ख.