ज्यमाना विशेषोक्तिः । सा च द्विविधा–उक्तनिमित्तानुक्तनिमित्ता च ।
अचिन्यनिमित्ता त्वनुक्तनिमित्तैव । अनुक्तस्य च चिन्त्याचिन्त्यत्वेन द्वै-
विध्यात् । क्रमेण यथा--
‘कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने ।
नमोऽस्त्ववारवीर्याय तस्मै कुसुमधन्वने ॥
आहूतोऽपि सहयैरेमीत्युक्त्वा विमुक्तनिद्रोऽपि ।
गन्तुमना अपि पथिकः संकोचं नैव शिथिलयति ।
'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तनंृुं यस्य शंभुना न हृतं बलम् ।
अत्र सत्यपि दाहलक्षणेऽविकले कारणेऽशक्तत्वाख्यस्य कार्यस्यानु-
त्पत्तिः शक्तिस्वरूपेणाविरुद्धेन धर्मेणोपनिबद्धा । अवार्यवीर्यत्वं चात्रोक्त-
निमित्तम् । तथाह्वानादयः संकोचशिथिलीकारहेतव इति तेषु सत्स्वपि
तस्यानुत्पत्तौ प्रियतमानसमागमाद्यनुक्तं सच्चिन्त्यं निमित्तम् । तथा
तनुहरणकारणे सत्यपि बलहरणस्य कार्यस्यानुत्पत्तौ निमित्तमनुक्तमप्यचि-
न्त्यमेव । प्रतीत्यगोचरत्वात् । कार्यानुत्पत्तिश्चात्र क्वचित्कार्यविरोधोत्पत्या
निबध्यते । एवं विभावनायामपि कारणाभावः कारणविरुद्धमुखेन क्वचिप्र-
तिपाद्यते । तथा च सति,
‘यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा-
स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः ।
तद्धेतुकमेवास्या भेदनिर्देशमाह--सा चेत्यादि । अचिन्त्येत्युत्तानाशयैः। वस्तुतस्तु संभवत्येव । अन्यथा त्वस्या विरोधो दुष्परिहार्यः स्यात् । अविकल इति । समग्रे वि- रुद्धधर्मत्वं शक्त्यशक्त्योर्विरोधात् । अस्याश्च कार्यानुत्पत्तेविच्छित्यन्तरेण बन्धं दर्शयितु- माह-कार्येत्यादि । यथा कर्पूर इवेत्यादौ । एवमिति । यथैवात्र कार्यानुत्पत्ति- विंरुद्धमुखेनोपनिबध्यत इत्यर्थः । तथा च सतीति । द्वयोरप्यनयोर्विरुद्धमुखेन कार्य- कारणभावोपनिषन्धे सतीत्यर्थः । उत्कण्ठायः कारणं कौमारहरवराद्यसंनिधानम् । तस्य विरुद्धं तत्संनिधानम् । तेन कौमारहवराद्यसंनिधानरूपं कारणं विनाप्युत्कण्ठाया उत्पाद इति विभावना । तथा कौमारहरवरादिसंनिधानरूपस्य कारणस्य कार्यमनुत्कण्ठा तस्याश्च विरुद्धोत्कण्ठा । तेन सत्यपि कौमारहरवरादिसंनिधानरूपे कारणे समग्रे कार्यस्यानुत्कण्ठा-