पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः परिच्छेदः

साक्षात्कामं नवमिव रतिर्मालती माधवं तं गाढोत्कण्ठा ललितललितैरङ्गकैस्ताम्यतीति ॥ " गायामात्सर्यवान् दृप्तश्चण्डश्चपलमानस ॥ ७ ॥ विकत्थनो वञ्चकोऽहङ्कारी धीरोद्धतो यथा । “ रुद्रादेस्तुलनं स्वकण्ठविपिनच्छेदो हरेर्वासनं कारावेश्मनि पुष्पकस्य हरणं यस्येदृशाः केलयः । 'सोऽयं दुर्दमबाहुदण्डसचिवो लङ्केश्वरस्तस्य मे का क्ष्लाघा गुणजर्जरेण धनुषा कृष्टेन भग्नेन वा ॥ " नायकत्वमवस्थाभिरेषां सर्वरसेष्वपि ॥ ८ ॥ प्रत्येकमेषां शृङ्गारेऽक्स्थाभिश्चतुरात्मता । दक्षिणश्च शठो धृष्टोऽनुकूलश्चेति कीर्तिताः ॥ ९ ॥ एकस्यां सक्तचित्तोऽपि कान्तास्यासु यः समम् । वर्तते गूढरागः सन् प्रोक्तोऽसौ दक्षिणो यथा ॥ १० ॥ " स्नाता तिष्टति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसुः ‘द्यतै रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च । इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थिंत नाडिकाः ॥ " गढविप्रियकारी तु शठ इत्युच्यते यथा । . " शठान्यस्याः काञ्चीमणिरणितमाकर्ण्य सह यदाक्षिष्यन्नेव प्रशिथिलभुजग्रन्थिरम 1. सोऽहं 2. सहसा. 3. शृङ्गारादस्थासु 4.