पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः परिच्छेदः ११

तन्वी तारकिता तनुस्तनुतरैः स्वेदाम्भसां जालकैः भावो भावजराज्यलक्ष्मिविदितो बाह्यैरलं डम्बरैः ॥ " विप्रलम्भो ऽभिलाषेर्ष्याप्रवासाघैरनेकधा । उदाहरणमेतेषामष्टावस्थासु वक्ष्यते ॥ २० ॥ रत्युल्लाससमुद्भता विद्यन्तेऽत्र दशा दश । चक्षुःप्रीतिर्मनस्सक्तिः' सङ्कल्पो जागरस्तथा ॥ २१ ॥ तनुता विषयद्वेषः त्रपानाशस्ततः परम् । मोहो मूर्छा मृतिरिति विज्ञेयाः प्रथमा यथा ॥ २२ ॥ भादरादीक्षणं यञ्च चक्षुःप्रीतिः प्रशस्यते । "सामिप्रफुल्लसरसीरुहकोणनिर्य- न्मत्तद्विरेफमहिलागतिगर्वचोरैः । लज्जालसैर्ललितभावशतैः कटाक्षेः सा त्वामवैक्षत सखी मम मन्वभूप ॥ " सितसक्तिर्मुहुश्चिन्ता प्रतिकृत्यादिभिर्यया ॥ २३ ॥ "त्वां ‘मन्मभूष लिस्वितुं त्रपथासमर्था सा सन्निधौ मम चिरादलिखद्विचिन्त्य । पद्मद्वयं करिकरौ गगनं कवाटं साम्भोरुहं युगयुगं शशिनं ततश्च ॥" मनोरथैः प्रियव्याप्तिः सङ्कल्पः कथितो यथा । "आभीलिताक्षमलकाकुलफालभाग- मास्विन्नगण्डमधरस्फुरणाभिरांमम् । 1. तनुभरैः 2. मनाश्शक्ति. 3. नस्तु विद्वेषः 4. मन्म 5. पद्मा.