पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अलङ्कारसहः ।

प्रथमः xxxxxदः ।

जगद्वैचित्र्यजनजागरूकपदद्वयम् । अवियोगरसाभिज्ञमाद्यं मिथुनमाश्रये ॥ १ ॥ 'समुल्लासरसाकारां तत्त्वकैरवकौमुदीम् । नमामि शारदां देवीं नामरूपाधिदेवताम् ॥ २ ॥ उद्दामफलदामुर्वी गुर्वीमुदधिमेखलाम् । भक्तिभूमिपतिः शास्ति शिवपादाब्जषट्पदः ॥ ३ ॥ तस्य पुत्रस्त्यागमहासमुद्रबिरुदाङ्कितः । सोमसूर्यकुलोतंसो महितो मन्मभूपतिः ॥ ४ ॥ स कदाचित्सभामध्ये काव्यालायपकथान्तरे । अपृच्छदमृतानन्दमादरेण कवीश्वरम् ॥ ५ ॥ ‘वर्णशुद्धिं काव्यवृत्तिं रसान् भावानन्तरम् । नेतृभेदानलङ्कारान् दोषानपि च तद्रुणान् ॥ ६ ॥ नाश्रयधर्मान् रूपकोपरूपकाणां भिदा अपि । चाटुप्रबन्धभेदांश्च विक्षिप्तांस्तत्र तत्र तु ॥ ७ ॥ सञ्चित्यैकत्र कथय सौकर्याय सतामिति । मया तप्रार्थितेनेत्थममृतानन्दयोगिना ॥ ८ ॥ 1. अनियोग. 2. तदुष्टास. 3. जिन. 4. पुत्रश्चागमवित्. 5, वर्णरू