पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४० अलङ्कारसङ्ग्रहः

क्ष्वोकावाद्यन्तयोर्नेतृमङ्गलार्थौं न्यसेडुधः । त्रिवा....वृत्तं चेद्भाषाभिर्मण्डलीक्रमात् ॥ उत्तमं चक्रवालं स्यादन्यूनादधिकं मतम् । रसादीन्वर्णयेद्भतीर्गुणकर्मानुसारतः ॥ उक्तमेतद्विशेषेण ........विजिगीषुभिः । द्वात्रिंशद्गद्यसंयुतं गद्याग्रे पल्लवैर्युतम् ॥ चतुर्धा भिन्नरूपेण न्यस्तस्वं स्वरबन्धनम् । तालैर्द्वादशभिर्युक्त लोकोत्तरमुदाहृतम् ॥ ........परं....स........तः । ……………………………………………………………………………. ..................………………….... न्त्यागसमा गुणा यस्य:मूह्यन्ते कविभिः कृतौ ॥ …………..गद्यमेकं चतुर्भिः पल्लवैर्युतम् । चतुर्धव समावृतं चुतुराक्षरबन्धनम् । आशीराद्यन्त....नेतुः पद्यद्वयेन तु । एवं पछैश्च गयैश्च सा भवेत्यागघोषणम् ॥ अथ संख्या भवेत् षष्टिः शतं वा स्याद्विशेषतः । अस्यास्तु सर्वे नेतारो भवेयुस्त्यागिनो (नराः) ॥ पद्य गद्य च तालं व सानुतालं चतुर्विधम् । देव वीर जयेत्यादिसम्बुद्धिः शान्त एव च ॥ स्याश्चतुर्धा च वृत्तं स्याच्चतुर्भद्रमितीरितम् । चाटुप्रबन्धैस्त्वयि चारुकीर्तिरुदारवर्णैरुपलास्यमाना । रक्ता सती राजगुरो विचित्नं मन्मक्षमानाथ मरालशुभ्र ॥ इत्यमृतानन्दयोगीन्द्रविरचितेऽलङ्कारसङ्ग्रहे चाटुप्रबन्धलक्षणं नामैकादशः परिच्छेदः ........