पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९८ अलङ्कारसङ्ग्रह:


प्रयोजितो भवेच्छुद्धः सङ्गीर्णो नीचमध्यमैः । अन्तर्यवनिकासंस्थैक्ष्चलिकार्थस्य सूचना ॥ ७४ ॥ अङ्कान्तपात्रैरङ्कास्यमुत्तराङ्कार्थसूचना । अङ्काक्तारत्स्वान्ते वान्तेऽङ्कस्यविभागतः’ ॥ ७५ ॥ भूतभाविकथांशानां सूचको नीचभाक्ष्या । नीचपात्रैः प्रयुक्तोऽङ्कद्वयस्यान्तः प्रवेशकः ॥ ७६ ॥ एभिः संसूचयेत्सूच्यं दृश्यमङ्कै प्रदर्शयेत् । नाट्यधर्ममवेक्ष्यैव श्राव्यं वस्तु त्रिधा मतम् ॥ ७७ ॥ सर्वश्राव्यं च नियतश्रव्यमश्राव्यमेव च । सर्वश्राज्यं प्रकाशं स्यादश्राव्यं स्वगतं मतम् ॥ ७८ ॥ द्विविधं नियतश्राव्यं जगान्तमपवारितम् । त्रिपताका करेणान्यानपवार्यान्तरा कथा' ॥ ७९ ॥ 'अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् । रहस्यं कथ्यतेऽन्यस्य परावृत्यापवारितम् ॥ ८० ॥ किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् । श्रुत्वेवानुक्तमप्येतत्स्यादाकाशभाषितम् ॥ ८१ ॥ सर्वाङ्गसङ्गतमनेकविधार्थसार्ध सद्वत्तनायकविशेषसमग्रशोभम् । राज्यं त्वादीयमिव रूपकवस्तुरम्यं मन्मक्षितीशा 'महतां मुदमातनोति ॥ ८२ ॥ इत्यमृतानन्दयोगीन्द्रविरचितऽलङ्कारसङ्गहे सन्ध्यङ्गनिरूपणं नाम सप्तमः परिच्छेदः 1. विभाक्तः. 2. नीचपात्ने. 3. प्रयोजयेत्. 4. कथाम् . 5. अन्योन्या. 6. प्येकत्त. 7. महतामुदयं तनोति.