पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८८ अलङ्कारसङ्ग्रः छद्म कर्म समाख्यातमभूताहरणं यथा। सोरभः–‘आर्ये ! विमुच्यते ? छद्मनानुप्रविश्य साधयामोऽभिलषितन् । तत्त्वार्थकथनं यत्तन्मार्ग इत्यच्यते यथा ॥ ४२ ॥

मङ्गलवती- ननु सोरभ ! “ कपटमिव कायवन्तं क इव विटच्छद्मनाखिलामेनाम् । "अलमतिसन्धानमतस्तत्त्वं कथयामि ताचतोऽर्थस्य ॥ " सवितर्क तु यद्वाक्यं रूपं तत्कथ्यते यथा। राजा-वयस्य ! "नेयं निशा दिवस एव भवेत् कथं मे निद्रान्यथा नयनयोर्युगळं न याति । नायं शशी तपन एव तनोति ताप- मुत्पात एव यदिमास्तु विभान्ति ताराः ॥ " यदुत्कर्षकरं वाक्यं तदुदाहरणं यथा ॥ ४३ ॥

राजा-(मलयमारुतं चेद्दिश्य) " मन्दोऽसि मलयमारुत कथमिव निश्वासमारुतैस्तस्याः । स्पर्धा करोषि मे त्वं विषायसेऽधुना सुधायन्ते ॥" क्रमः सञ्चिन्त्यमानाप्तिज्ञानं भावस्य वा यथा । (राजा इति वदन्नेव नेत्ने निxलयति) विदुषकः--णोमालिए! एसो वअस्सो 'णिमोलिअ उणभिणेो सकंपसमागमहं अणुहेमु । यौक्तिकपिधानं च सङ्गहः कथ्यते यथा ॥ ४४ ॥ 1. आये. 2. सन्धातुमद. 3. तावता. 4. णिमिलथ रायणां सक्काप्प समाअमसुह अणुहन इ. (गलसिगि मालिदला अणा संङ्कप समाअमसुयां अणुहृदि व सा)