पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
40
अलंकारमणिहारे

रीत्या तव निरतिशयप्रीतिपात्रतामापद्येतेति भावः । अत्र न सन्देहः । यद्वा वृद्धः प्रवृद्धः अच्छः देवतान्तरसंबन्धगन्धदवीयस्तया विमलः प्रत्ययो विश्वासो यस्य स तथाभूतः महाविश्वासशालीत्यर्थः । त्वदीयः त्वदेकशरणः पुमान् वृद्धाच्छप्रत्यय इत्यावृत्त्या योज्यम् । अभिवृद्धनिर्मलज्ञानः 'सर्वं ह पश्यः पश्यति । स चानन्त्याय कल्पते’ इत्युक्तरीत्या नित्यासंकुचितज्ञानो भवेदित्यर्थः । त्वयि महाविश्वासोपलक्षितात्मरक्षाभरसमर्पणं विदधानो मुक्तो भवतीति भावः । अत्र प्राथमिकेऽर्थे उपासना द्वितीयस्मिन्न्यास इति वैलक्षण्यम् ॥

 अन्यत्र वृद्धाच्छप्रत्यय इति सप्तम्यन्ततया छेदः । वृद्धाच्छप्रत्यये ‘वृद्धाच्छः' इति सूत्रविहितछप्रत्यये कृते सति त्वदीय इति रूपं भवतीत्यावृत्त्या योजनीयम् । ‘त्यदादीनि च' इति युष्मच्छब्दस्य वृद्धसंज्ञायां ‘वृद्धाच्छः’ इति छप्रत्यये विहिते त्वदीय इति रूपं सिद्ध्यतीत्यर्थः । उत्तरार्धं सुगमम् । अत्र स्वाभिमते उपपादितेऽर्थे पाणिनिस्मृतेः प्रामाणतयाऽवतारणम् ॥

 यथावा--

 इयमादेशमजाद्ये धत्ते सुप्प्रत्यये परेऽपि श्रीः । भवतीलोपगताऽस्मिन्नर्थे शाब्दिकमुनेर्वचो मानम् ॥ २०६६ ॥

 हे श्रीः! इलोपगता इलया भूदेव्या उपगता समीपाश्रिता 'लक्ष्मीप्रियसखीम्' इति भूदेव्याः श्रीसखीत्वश्रवणादिति भावः । इयं भवती सुप्रसिद्धा त्वं अजाद्ये ब्रह्मादौ चतुर्मुखस्यापि कारणभूते इति परमात्मन एव विशेषणं वा । सुप्प्रत्यये शोभनज्ञाने, प्रत्यय इत्युपलक्षणं शक्तिबलादीनामपि परिपूर्णज्ञानादिषाड्गुण्ये