पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
41
शब्दप्रमाणसरः (११५)

इत्यर्थः । परेऽपि भगवत्यपि ‘परोऽरिपरमात्मनोः' इति विश्वः । आदेशं शासन धत्ते पुष्णाति । ‘यदपाङ्गाश्रितं सर्वं जगत् स्थावरजङ्गमम् । यद्भ्रुभङ्गाः प्रणाणं स्थिरचररचनातारतम्ये मुरारेः' इत्याद्युक्तेः ॥

 पक्षे-- श्रीः श्रीशब्दः अजाद्ये अच् आद्यो यस्य तस्मिन् सुप्प्रत्यये सुप्प्रत्याहारघटक औजस् इत्यादौ प्रत्यये परे सति । अपिशब्दो भिन्नक्रम उत्तरत्रान्वेति । इयं इय् इत्याकारकं आदेशं धत्ते । भवति ईलोपगता इति छेदः । ईलोपं ईकारादर्शनं गताऽपि प्राप्ताऽपि, अपिस्समुच्चये । भवति भूधातोर्लट् । अस्मिन्नर्थे शाब्दिकमुनेः पाणिनेः वचः प्रमाणम् । श्रीशब्दस्याजादौ विभक्तौ परतः ‘अचि ‘श्नुधातुभ्रुवां य्वोरियङुवङौ’ इति विहितस्य इयङो ङित्त्वात् ‘ङिच्च' इत्यनेन अन्त्यवर्णस्य ईकारस्यादेशविधानादिति भावः । ईकारस्य इयङाऽपहृतत्वाददर्शनम् । अत्रापि स्वविवक्षिते श्रुत्यादिसिद्धे श्रीपरत्वरूपेऽर्थे उपपादितश्लेषमूलाभेदाध्यवसायेन पाणिनीयवचसः प्रमाणतयोपन्यासः ॥

 यथावा--

 आस्ते विष्णुर्नित्यं पदे परस्मिञ् श्रिया त्रिलोकतनुः । नित्यसमासवचस्तत्पुरुषस्योत्तरपदे तदत्युचितम् ॥ २०६७ ॥

 त्रिलोकतनुः सकलजगच्छरीरकः ‘जगत्सर्वं शरीरं ते' इत्यादिप्रमाणात् । त्रिलोकेत्यत्र 'दिक्संख्ये संज्ञायाम्' इति नियमेन समासप्राप्तौ ‘तद्धितार्थोत्तरपदसमाहारे च' इत्यनेन समासः । त्रयो लोकाः तनुः यस्येति त्रिपदे बहुव्रीहौ कृते तनुशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । अत्रावान्तरतत्पुरुषस्य

 ALANKARA VI.
6