पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२८७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
279
ग्रन्थोपसंहारः

 सुकुमाराकृतिवर्णा सालंकरणा च सुरुचिकरचरणा । कविताश्रीरेत्य त्वां कमितारं नाथ मदुदितोल्लसतात् ॥ २३८२ ॥

 सुकुमाराकृतयो वर्णाः अक्षराणि यस्यां सा सानुस्वारकोमलवर्णघटितेत्यर्थः । पक्षे सुकुमारौ आकृतिवर्णौ यस्यास्सेति । सुरुचिकराः आस्वाद्यतमाः चरणाः श्लोकपादाः यस्या सा । अन्यत्र सुरुचि शोभनच्छवि करचरणं पाणिपादं यस्यास्सेति । मदुदिता मया उदीरिता मत्तो जातेति च कविताश्रीः कवनलक्ष्मीः उल्लसतात् प्रकाशतां प्रमोदतां च ॥

 धन्या मम कवितेव क्वान्या भवतेह मृग्यतां जगति । कन्यामिवोदधेर्यां मान्यां हृद्यां तनोति फणिगिरिराट् ॥ २३८३ ॥

 मान्यां पूज्यां उदधेः कन्यामिव यां मान्यां मायाः श्रियः अन्यां तस्याः द्वितीयां सतीं हृद्यां वक्षस्स्थां हृदयप्रियां च तनोतीति योजना ॥

 नन्दतु वा निन्दतु वा मन्दमनीषो निशम्य कृतिमेताम् । हर्षं वाऽमर्षं वा सर्षपमात्रमपि नैव विन्देम ॥ २३८४ ॥

 प्रौढतरो हि निबन्धो मूढमतेर्दुर्निरीक्ष एव भवेत् । दीपोऽतिमात्रमुज्ज्वलरूपो नेत्रातुरस्येव ॥