पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
280
अलङ्कारमणिहारे

 प्रगुणामलसुगुणावलिमसृणितमाद्यन्तमेकरूपतया । सुवसनमिव सुकवनमिह न मन्दभाग्योऽनु विन्दते क्वापि ॥ २३८६ ॥

 कोमलधीरस्मादपि कोमलमेकमपि योऽभिनन्देच्छ्लोकम् । इह यस्तु कोपकारी कवयेऽस्मै भवति कोऽपकारी तस्मात् ॥ २३८७ ॥

 कोमलं न तु कठिनं एकमपि न तु पञ्चषान् द्वित्रान्वा, श्लोकं अभिनन्दति यः अस्मात्पुंसः एतदपेक्षया कः पुमान् अमलधीः असूयादिकालुष्यविधुरतया स्वच्छधीः अस्ति । इह अस्मिन्नेकस्मिन्नपि श्लोके यस्तु कोपकारी असूयाकृदिति यावत् तस्मात्पुंसोऽपि अस्मै ग्रन्थकृते कवये अपकारी कस्स्यात् । असूयापेक्षया कोन्योऽपकार इति भावः ॥

 दुष्प्रेक्षो यो भविता दुष्प्रेक्षस्तेन हि प्रबन्धोऽयम् । सुप्रेक्षस्तु भवेद्यस्सुप्रेक्षस्तेन नात्र संदेहः ॥

 दुष्टा अविवेकासूयादिदोषदूषिता प्रेक्षा मतिः यस्य सः 'प्रेक्षोपलब्धिश्चित्संवित्' इत्यमरः । दुःखेन प्रेक्ष्यत इति दुष्प्रेक्षः प्रेक्षितुमशक्य इत्यर्थः । ईक्षतेः ‘ईषद्दुस्सुषु कृछ्राकृछ्रार्थेषु खल्' इति खल् । एवमग्रे सुप्रेक्ष इत्यत्रापि ॥

 अनधिगतकाव्यपरिमळलेशाः कतिचन गभीरभावाढ्ये । कविवचने मा जात्वपि गुणदोषविवेकचापलं यान्तु ॥ २३८९ ॥