पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
19
अनुमानसरः (११३)

तत्वं साध्यं, स्त्रीत्वादिना विदितत्वं साधनम् । तथाच इदं द्विषतां यशः पुरुषोत्तमपौरुषावधीरितं आदौ योषित्त्वेन शोषितत्वेन क्लीबत्वेन च विदितत्वादिति प्रयोगः ॥

 यथा वा--

 त्वच्चक्रेण विवस्वान् संस्पर्धी नूनमाहतस्तेन । विमुखोऽन्तर्मग्नवसुर्यददन्तो वैशसं परं प्राप्तः ॥

 हे भगवन्निति प्रकरणाल्लभ्यते । विवस्वान् भास्वान् त्वच्चक्रेण सह संस्पर्धी अतएव तेन समाहतः अभिहतः नूनम् । यत् यस्मात् विमुखः पराङ्मुखः अन्तर्मग्नानि वसूनि किरणाः यस्य स तथाभूतः अदन्तः विगळितरदनः परं वैशसं हिंसां च प्राप्तः । तस्मादभिहत इति मन्ये इति योजना ।

 पक्षे-- विवस्वानित्याकारकश्शब्दः विमुखः विकारो मुखे यस्य स तथोक्तः परं परत्र विद्यमानं शसं शस्प्रत्ययं द्वितीयाबहुवचनं प्राप्तः अदन्तः अत् इत्याकारकवर्णद्वयं अन्ते यस्य स तथोक्तः वै इति निपातः प्रसिद्धौ शस्परकत्वे, विवस्वत् इत्यवस्थानात्तथोक्तिः । शस् इत्युपलक्षणं टादीनामपि । सर्वनामस्थानपरकत्वे नुमो विधानेन अदन्तताया अश्रवणात् शसं परं प्राप्तः अदन्त इत्यभिहितम् । अत्र विवस्वतो भगवच्चक्रसमाहतत्वं विमुखत्वादिहेतुभिस्साध्यते ॥

 अत्रेदमवधेयम्-- जानन्ति मन्ये इत्यादिपदोपादाने वाच्यमनुमानं, यथा 'सामोदबाष्पपूरैः' इत्याद्युदाहरणेषु । प्रकाशयतीत्यादिलक्षकपदोपादाने लक्ष्यं, यथा ‘भुवनतलम्’ इति प्राथमिकोदाहरणे । तदन्यतरानुपादाने साध्याक्षिप्तायामनुमितौ प्रतीयमानम् ॥